कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 855, कुल 1079 में से
संदर्भ में पढ़ें८६ कथासरित्सागर तच्छ्रुत्वा स ददौ तुष्टस्तेभ्योऽर्थं स च ते पुनः। विवाहस्तव सम्पन्न इत्यूचुर्दिवसगते ॥२०॥ ततः स सुतरां तुष्टस्तेभ्यो भूरि धनं ददौ। दिनेष्वथ च वदन्ति स्म पुत्रो जातस्तवेति ते ॥२१॥ ननन्द तेन सर्वं च मूढस्तेभ्यः समर्प्य सः। पुत्रं प्रत्युत्सुकोऽस्मीति प्रारोदीच्चापरेऽहनि ॥२२॥ श्वश्रूशावन्न शोकस्य हासं धूर्तेः स वञ्चितः। पशुभ्य इव सङ्क्रान्तजडिमा पशुपालकः ॥२३॥ मत्तकूरत्नस्तम्बककथा पशुपालः श्रुतो देव शृण्वस्तूरत्नस्तम्बकम्। ग्राम्यः कश्चित्तमं मूर्ध्नि प्रापास्तूरजं महत् ॥२४॥ रात्रौ राजकुलाभ्यन्तरैर्नीत्वा तत्र निवेशितम्। यद्गृहीत्वा स तत्रैव भार्यां तेन व्यभूषयत् ॥२५॥ बबन्ध मेखलां मूर्ध्नि हारं च जघनस्थले। नूपुरौ करयोस्तस्याः कर्णयोरपि कङ्कणौ ॥२६॥ हसद्भिः स्थापितं लोकैर्बुद्ध्वा राजा जहार तत्। तस्मात् स्वाभरणं तं तु पशुप्रायं मुमोच सः ॥२७॥ तूलविक्रयिणः कथा उक्तोऽस्तूरणो देव शृणु वक्ष्यमथ तूलिकम्। मूर्खः कश्चित् पुमांस्तूलविक्रमायापणं ययौ ॥२८॥ अशुद्धमिति तत्तस्य न जग्राहात्र कश्चन। तावद्ददर्श तत्राग्नौ हेम निष्टप्तशोधितम् ॥२९॥ स्वर्णकारेण विक्रीतं गृहीतं ग्राहकेण च। तद्दृष्ट्वाऽपि स तत्तूलमिच्छञ्छोधयितुं जडः ॥३०॥ अग्नौ क्षिप्त्व दग्धे च तस्मिँल्लोको जहास्तम्। खर्जूरीच्छेदककथा श्रुतोऽप्य तूलिको देव खर्जूरीच्छेदकं शृणु ॥३१॥