कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 877, कुल 1079 में से
संदर्भ में पढ़ें८९८ कथासरित्सागर मा वाचं कस्यचित्तातदयामयादेवमिह स्थितः। नागोऽहमिति वक्ति स्म सोऽपि तां मारमोहितः ॥१७३॥ सा तद्रहसि कुट्ट्यै शशंस गणिका ततः। अथ तार्क्ष्यो जगच्चिन्त्यस्तत्रागात् पुरुषाकृतिः ॥१७४॥ उपेत्य कुट्टनीं तां च जगाद त्वत्सुतागृहे। अहमद्य वसाम्यार्ये भाटकं मे गृह्यतामिति ॥१७५॥ इह नागः स्थितो नित्यमिमां पञ्चशतीं ददत्। तत्किमेवाहमादद्येति कुट्टन्यपि जगाद तम् ॥१७६॥ ततः स गरुडो नागं तत्र स्थितमवेक्ष्य तम्। विवेशातिथिभावेन तद्वारवनितागृहम् ॥१७७॥ तत्र प्रासादपृष्ठस्थं नागं तमवलोक्य सः। प्रकाश्यत्मानमुत्पत्य जघान च जघास च ॥१७८॥ अतो न कथयेत् प्राज्ञो रहस्यं स्त्रीष्वनर्गलम्। इत्युक्त्वा गोमुखो मुग्धकथां पुनरवर्णयत् ॥१७९॥ केशमूर्खकथा ताम्रकुम्भोपमशिरा कोऽप्यासीत् खलतिः पुमान्। स च मूर्खोऽर्थवांल्लोके लज्जते स्म कचैर्विना ॥१८०॥ अथ धूर्तस्तमागत्य काञ्चुकाद्योपजीविकः। एकोऽस्ति वैद्यो यो वेत्ति केशोत्पादनमौषधम् ॥१८१॥ एतच्छ्रुत्वा तमाह स्म तमानयसि चेन्मम। ततोऽहं तव दास्यामि धनं वैद्यस्य तस्य च ॥१८२॥ एवमुक्तवतस्तस्य धनं भुक्त्वाचिरेण सः। मुग्धस्यानीतवानेकं धूर्तो धूर्तचिकित्सकम् ॥१८३॥ उपजीव्य चिरं सोऽपि खल्वाटं तं भिषक्छिरः। अपास्य खर्पणं युक्त्वा मुग्धायात्मानमदर्शयत् ॥१८४॥ तद्दृष्ट्वाप्यविमर्शी सन् वैद्यं केशार्थमौषधम्। सं ययाचे स बद्धधीस्ततो वैद्योऽब्रवीत् स तम् ॥१८५॥ खल्वाटः स्वयमन्यस्य जनयेयं कचं कथम्। इति ते मूर्ख निर्लोम दर्शितं स्वशिरो मया ॥१८६॥ तथापि त्वं न वेत्स्यत्र धिगित्युक्त्वा ययौ भिषक्। एवमेव सदा धूर्ता क्रीडन्ति जडबुद्धिभिः ॥१८७॥