कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 887, कुल 1079 में से
संदर्भ में पढ़ें८१८ कथासरित्सागर ब्रह्मचारि पुत्रस्य कथा कश्चित् पितृगुणाख्यानप्रवृत्तमखिमध्यग । मुग्धः स्वपितुरुच्चैष वर्णयन्नवमभ्यधात् ॥२४८॥ आबाल्याद्ब्रह्मचारी मे पिता नान्योऽस्ति तत्समः । तच्छ्रुत्वा त्वं कुतो जात इति तं सुहृदोऽब्रुवन् ॥२४९॥ मानसोऽहं सुतस्तस्येत्येव पुनरपि ब्रुवन् । विशेषतो विहसितः स तैर्मूढशिरोमणिः ॥२५०॥ अत्यारूढ वदन्त्येवमसम्बद्धं जहादायाः । ब्रह्मचारिसुतं श्रुत्वा श्रूयतां गणकोऽप्ययम् ॥२५१॥ मूर्खज्योतिर्विदः कथा बभूव नाम गणकः कश्चिदविज्ञानवर्जितः । स भार्यापुत्रसहितः स्वदेशाद्वृत्त्यभावतः ॥२५२॥ गत्वा देशान्तरं तत्र मिथ्याविज्ञानमात्मनः । कृतकप्रत्ययेनार्थपूजां प्राप्तुमदीधयत् ॥२५३॥ परिष्वज्य सुतं बालं स तं सर्वजनाग्रतः । रुरोद पृष्टश्च जनैरथ पापो जगाद सः ॥२५४॥ भूत भव्यं भविष्यच्च जानेऽहं तदयं शिशुः । विपत्स्यते मे दिवसे सप्तमे तेन रोदिमि ॥२५५॥ इत्युक्त्वा तत्र विस्माप्य लोकं प्राप्तेऽह्नि सप्तमे । प्रत्यूष एव सुप्तं च स व्यापादितवान् सुतम् ॥२५६॥ दृष्ट्वाथ तं मृतं बालं सञ्जातप्रत्ययैर्जनैः । पूजितो धनमासाद्य स्वदेशं स्वैरमाययौ ॥२५७॥ इत्यर्थलोभात् मिथ्यैव विज्ञानस्थापनेच्छवः । मूर्खा पुत्रमपि घ्नन्ति न रम्येष्वेषु बुद्धिमान् ॥२५८॥ क्रोधिनो मूर्खस्य कथा अथ च श्रूयतां मूर्खः क्रोधनः पुरुषः प्रभो । बहिः स्थितस्य कस्यापि पुंसः कुत्रापि शृण्वतः ॥२५९॥ अभ्यन्तरे गुणान् कश्चिच्छशंस स्वजनाग्रतः । तदा चैकोऽब्रवीत्तत्र सत्यं स गुणवान् सखे ॥२६०॥ किं तु द्वौ तस्य दोषौ स्तः साहसी क्रोधनश्च यत् । इति वादिनमेवैतं बहिर्वर्ती निशम्य सः ॥२६१॥ पुमान् प्रविश्य सहसा वाससावेष्टयद् गले । रे चास्ति साहस किं मे क्रोधः कच्चन मया कृतः ॥२६२॥