कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 889, कुल 1079 में से
संदर्भ में पढ़ें८४ कथासरित्सागर इत्युवाच च साक्षेपं पुमान् क्रोधाग्निना ज्वलन् । ततो हसन्तस्तत्रान्ये तमूचुः किं ब्रवीत्यदः ॥२६३॥ प्रत्यक्षवञ्चितश्चौद्यसाहसोऽपि भवानिति । एवं स्वदोषः प्रकटोऽप्यज्ञैर्देव न बुध्यते ॥२६४॥ एकस्य मूर्खराज्ञः कथा इदानीं श्रूयतां मुग्ध-कन्यावर्धयिता नृपः । राजाभून्मूर्खोऽपि कन्यैका सम्प्राजनि तस्य च ॥२६५॥ स वर्धयितुकामस्तामतिस्नेहेन सत्वरम् । वैद्यानानीय नृपतिः प्रीतिपूर्वमभाषत ॥२६६॥ सदौषधप्रयोगं तं कञ्चित् कुरुत येन मे । सुतैषा वर्धते शीघ्रं सद्मर्त्रे च प्रदीयते ॥२६७॥ तच्छ्रुत्वा तेऽब्रुवन्वैद्या उपजीवयितुं जडम् । अस्त्यौषधमितो दूरात्तत्तु देशादवाप्यते ॥२६८॥ आनयामश्च यावत्तावदेव सुता सव । बदृश्या स्मापनीयैषा विमाने सत्र हीदृशम् ॥२६९॥ इत्युक्त्वा स्वापयामासुश्छन्नां से तां नृपात्मजाम् । संवत्सरानत्र बहूनौषधप्राप्तिशंसिनः ॥२७०॥ यौवनस्थां च तां प्राप्तामोपधेन प्रवर्धिताम् । द्रुवाजा दर्शयामासुः सुतां तस्मै महीभृते ॥२७१॥ सोऽपि तान्पूरयामास वैद्यांस्तुष्टो मनोरथैः । इति व्याजाज्जडधियो धूर्तैर्मृग्यन्त ईश्वराः ॥२७२॥ मूर्खकृपणस्य कथा अथ चाकर्ण्यतामर्धपणोपार्जितपण्डितः । अभून्नगरवास्येकः पुमान् प्रज्ञाभिमानवान् ॥२७३॥ ग्रामवासी च तस्यैकः पुमान् संवत्सरावधि । भृतकोवृत्यसन्तोषादापृच्छ्य स्वगृहं ययौ ॥२७४॥ गते तस्मिंश्च पप्रच्छ भार्या सन्धि गतः स ना । त्वत्त किञ्चिन्न गृहीत्वेति साप्यर्धपणमम्यधात् ॥२७५॥ ततो वक्षपजान् कृत्वा पाथेयं स नदीतटे । गत्वा स्वभृतकात्तस्मात्तमर्धपणमानयत् ॥२७६॥ तच्चार्धकोशरु शसन् स ययौ लोकहास्यताम् । एवं बहु क्षपयति स्वल्पस्यार्थे धनाधमी ॥२७७॥