कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 923, कुल 1079 में से
संदर्भ में पढ़ें८७४ कथासरित्सागर विभज्यमाने पार्थेऽस्मिन्नूनाधिकविवादिमौ। स्वेयीकृत उपाध्यामश्छान्दसस्तावभाषत ॥१७३॥ वस्तु वस्तु समे द्वे द्वे अर्धे कृत्वा विभज्यताम्। युवाभ्यां येन नैव स्यान्नूनाधिककृतः कलिः॥१७४॥ तच्छ्रुत्वा वेश्मशय्यादिभाण्डं सर्वं पशूनपि। एकमकं द्विधा कृत्वा मूढौ विभजतः स्म तौ ॥१७५॥ एका दासी तयोरासीत्सापि ताभ्यां द्विधा कृता। तद्बुद्ध्वा दण्डितौ राज्ञा सर्वस्वं तावुभावपि॥१७६॥ द्वौ लोकौ नाशयन्त्येवं मूर्खा मूर्खोपदॆशतः। तस्मान्मूर्खांन्न सेवेत प्राज्ञः सेवेत पण्डितान् ॥१७७॥ असन्तोषोऽपि शोषाय तथा चेदं निशम्यताम्। आसन् प्रव्राजकाः केचिद्भिक्षासन्तोषपीवराः ॥१७८॥ तान्दृष्ट्वा पुरुषाः कश्चिदन्योन्यं सुहृदोऽब्रुवन्। अहो भिक्षाशिनोऽप्येते पीनाः प्रव्राजका इति ॥१७९॥ एकस्तेषु ततोऽवादीत् कौतुकं दर्शयामि वः। अहं कृशीकरोम्येतान् भुञ्जानानपि पूर्ववत् ॥१८०॥ इत्युक्त्वा स निमन्त्र्यैतान् क्रमात् प्रव्राजकान् गृहे। एकाहं भोजयामास षड्रसाहारमुत्तमम् ॥१८१॥ तेऽन्य मूर्खास्तिवास्वादं स्मरन्तो भैक्षभोजनम्। न तथाभिलषन्ति स्म तेन दुर्बलतां ययुः ॥१८२॥ ततः प्रदर्श्य सुहृदो दृष्ट्वा तत्सन्निधौ च तान्। प्रव्राजकांस्तदाहारदायी स पुरुषोऽब्रवीत् ॥१८३॥ सदा भैक्षेण सन्तुष्टा हृष्टपुष्टा इमेऽभवन्। अधुना तदसन्तोषदुःखाद्दुर्बलतां गताः॥१८४॥ तस्मात्प्राज्ञः सुखं वाञ्छन्सन्तोषे स्थापयेन्मनः। लोकद्वयऽप्यसन्तोषो दुःखहायान्तदुःसहः ॥१८५॥ इति सेनानुशिष्टास्ते सुहृदो ह्युक्तास्तद्वचम्। असन्तोषं जहुः कस्य सत्सङ्गो न भवेच्छुभः ॥१८६॥