कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 95, कुल 1079 में से
संदर्भ में पढ़ें७४ कथासरित्सागर इत्युक्तस्तेन स ज्ञानी मर्कटस्समभाषत । गच्छ सुप्तामिदानीं तां स्थितां कृत्वाऽङ्गरुहसिनीम् ॥२२२॥ तद्धस्तविद्यया व्योम्ना तामानय मदन्तिकम् । यावन्महद्विहाटथ्यं दर्शयाम्यधुनैव च ॥२२३॥ तच्छ्रुत्वा खेन गत्वैव सोऽनुरागपरो ततः। दृष्ट्वा निश्चयदत्तस्तां सुप्तामङ्केऽग्रहील्लघु ॥२२४॥ न तु विद्याधरं तस्या नाङ्गे लग्नं ददर्श सः । सुप्तं विद्याधसेनाथाववृश्यं विहितं तया ॥२२५॥ उत्पत्य चान्तरिक्षं तामनुरागपरां क्षणात् । आनिनाय कपेस्तस्य स सोऽगत्स्वामिनोऽन्तिकम् ॥२२६॥ स कपिर्विद्ययुक्तेस्मै तथा योगमुपादिदत्। येन विद्याधरं तस्याः कण्ठे लग्नं ददर्श सः ॥२२७॥ दृष्ट्वा च हा भिगोतस्स्मीति तं वादिनं कपिः। स एव तत्त्वदर्शी तच्चेष्टावृत्तमबोधयत् ॥२२८॥ क्रुद्धे निश्चयदत्तेऽथ तस्मिन् विद्याधरोऽत्र सः । प्रबुद्धस्तत्प्रियाकामी समुत्पत्य तिरोबभे ॥२२९॥ सापि प्रबुद्धा तत्कालमनुरागपरात्मनः । रहस्यमेदं तं दृष्ट्वा ह्रिया तस्याप्यधोमुखी ॥२३०॥ ततो निश्चयदत्तस्तामुवाचोदश्रुलोचनः । विश्वस्तोऽहं कथं पापे त्वयैव बत वञ्चितः ॥२३१॥ अत्यन्तसञ्छन्नस्येह पारवश्य निबन्धने । कामं विज्ञायते युक्तिर्न स्त्रीचित्तस्य काचन ॥२३२॥ इति ब्रुवति तस्मिन्सामुत्तरा रुदती शनैः । अनुरागपरोत्पत्य विप्रं धाम निजं ययौ ॥२३३॥ ततो निश्चयदत्तस्तं सुहृन्मर्कटमब्रवीत् । एतां यन्म्यभावस्त्वं वारितोऽपि ममा प्रियाम् ॥२३४॥ त्यक्त्व तीव्ररागान्धैः पश्चाद्यदनुतप्यते । कः हि सम्पत्सु चपलास्वाश्वासो वनितासु च ॥२३५॥