कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 952, कुल 1079 में से
संदर्भ में पढ़ेंकथासरित्सागर आगमिष्ये स्वमादाय हृत्पद्मं स्वस्त्रियाकृत । यासोद्युम्बरवृक्षे हि तद्विदानीं मम स्थितम् ॥१२०॥ सच्छ्रुत्वा शिशुमारस्तमार्त्तो मूर्खोऽब्रवीदिदम् । तर्ह्यतैवानयहि त्वमुदुम्बरतरोरिति ॥१२१॥ आनितायाम्बुधेस्तीरं शिशुमारः पुनः स तम् । तत्र तेनान्तकेनेव मुक्तः स च कपिस्तटम् ॥१२२॥ उत्पत्यारुह्य वृक्षाग्रं शिशुमारमुवाच तम् । गच्छ रे मूर्ख हृदयं देहाद्भवति किं पृथक् ॥१२३॥ मयैव मोचितो ह्यात्मा न चात्रेष्याम्यहं पुनः । किमत्र न श्रुता मूर्ख गर्दभाख्यायिका त्वया ॥१२४॥ कर्णहृदयहीनस्य गर्दभस्य कथा आसीद्गोमायुसचिवः सिंहः कोऽपि वने क्वचित् । ॥१२५॥¹ स जात्वासटकायावेनाप्त भूपेन केनचित् । आहुतो धृतिमञ्जीवन् कथमप्यविशद्गुहाम् ॥१२६॥ तत्र स्थित गते तस्मिन् राज्यनाहारनिःसहम् । तच्छेषाभिषवृत्तिः सन्गोमायुः सचिवोऽभ्यधात् ॥१२७॥ निर्गत्य किं यथाशक्ति नाहारं चिनुषे प्रभो । सीदत्येष शरीरं ते समं परिजनेन यत् ॥१२८॥ इत्युक्तः स शृगालेन तत्र सिंहो जगाद तम् । सखे नाहं व्रणाक्रान्तः शक्नोमि भ्रमितुं क्वचित् ॥१२९॥ खरस्य कर्णहृदयं भक्ष्यं प्राप्नोमि चेदहम् ॥ तन्मे व्रणानि रोहन्ति प्रकृतिस्थो भवामि च ॥१३०॥ तदानय कुतोऽपि त्वं गत्वा गर्दभमाशु मे । इत्युक्तस्तं गोमायुः स तथेति ययौ ततः ॥१३१॥ भ्रमञ्जलाश्रयान्तिके दृष्ट्वा रजकस्य स गर्दभम् ॥ प्रीत्येवोपत्य वक्ति स्म दुर्बलः किं भवानिति ॥१३२॥ १ मूलपुस्तके पदार्धं त्रुटितमस्ति ।