भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 958, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 958

९४ कथासरित्सागर स्नात्वागतस्तथाभूतं स दृष्ट्वा गदभं हरिः। क्व कर्णौ हृदयं चास्येत्यपृच्छत् च जम्बुकम्॥१४८॥ जम्बुकः सोऽप्यवादीत्समकर्णहृदयः प्रभो। प्रागवासीत्कथं गत्वाप्यागच्छेदन्यथा ह्ययम्॥१४९॥ सच्छ्रुत्वा स तथैवेति मत्वा केसरर्यभक्षयत्। तन्मांसमन्यतच्छेषं जम्बुकोऽपि चखाद सः॥१५०॥ इत्याख्याय कपिर्भूयः शिशूमारमुवाच तम्। तन्नावेक्ष्यामह्यं भूयः करिष्यामि स्वरामितम्॥१५१॥ एवं तस्मात्कपः श्रुत्वा शिशूमारो ययौ गृहम्। मोहादसिद्ध भार्यार्थं क्षोभन्मित्रं च हारितम्॥१५२॥ तस्सव्यापगमाच्चास्य भार्या प्रकृतिमाययौ। कपिः सोऽप्यम्बुधेस्तीरे चचार च यथासुखम्॥१५३॥ तथैव विश्वसेन्नेव बुद्धिमान् दुर्जने जने। दुर्जने कृष्णसर्पे च कुतो विश्वासतः सुखम्॥१५४॥ इत्याख्याय कथां मन्त्री गोमुखः पुनरेव सः। नरवाहनदत्तं तं निजगाद विनोदयन्॥१५५॥ शृण्विदानीं क्रमादन्यानुपहास्यानिमान् जडान्। तत्रैमं शृणु गान्धर्वपरितोषकरं जडम्॥१५६॥ मापण्डस्य वणिकस्य च कथा कश्चिद् गान्धर्बिकनाड्यो गीतवाद्येन तोषितः। माण्डागारिकमाहूय तत्समक्षमभाषत॥१५७॥ देहि गान्धर्विकायास्मै द्वे सहस्रे पणानिति। एव करोमीत्युक्त्वा च स माण्डागारिको ययौ॥१५८॥ गान्धर्विकोऽथ गत्वा तान् पणास्तस्मादयाचत। न चास्मै स्थितसद्वित्तान् पणान् माण्डागरिको ददौ॥१५९॥ अथापृष्टस्तेन विज्ञाप्तस्तत्कृते वैणिकेन सः। उवाच किं त्वया दत्तं येन प्रतिददानि ते॥१६०॥ वीणावाद्येन मे क्षिप्रं त्वया श्रुतिसुखं कृतम्। तथैव दानवाक्येन कृतं क्षिप्रं मयापि ते॥१६१॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 958, कुल 1079 में से · BharatKosha