भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 960, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 960

९०६ कथासरित्सागर

तच्छ्रुत्वा विहताशोऽपि हसित्वा वणिको ययौ। कोनाशोक्त्यानया किं न हासो प्राज्ञोऽपि जायते ॥१६२॥ मूर्खशिष्ययोः कथा भीतशिष्यद्वय चव वेवेदानीं निशम्यताम्। गुरोः कस्याप्यभूतां द्वौ शिष्यावन्योन्यमत्सरी ॥१६३॥ तयोरेको गुरोस्तस्य दक्षिणं पादमन्वहम्। अभ्यञ्जन् क्षालयामास वामं पादं तथेतरः ॥१६४॥ दक्षिणाभ्यञ्जके जातु ग्रामं सम्प्रषिते गुरोः। अभ्यक्तवामपादं स द्वितीयं शिष्यमभ्यधात् ॥१६५॥ त्वमेव दक्षिणं पादमभ्यज्य क्षालयाद्य मे। श्रुत्वैतं मूर्खशिष्योऽसौ गुरुं स्वरमभाषत ॥१६६॥ प्रतिपक्षस्य सम्बन्धी न पादोऽभ्यङ्ग्य एष मे। एवमुक्तवतस्त्यास्य निर्बन्धं सोऽकरोद् गुरुः ॥१६७॥ ततो विपक्षतच्छिष्यरोषावादाय तस्य तम्। गुरोः शिष्यः स चरणं वसावु ग्राव्णा च भग्नवान् ॥१६८॥ मुक्ताक्रन्दे गुरौ तस्मिन् कुशिष्योऽन्यै प्रविश्य सः। ताड्यमानः सशोकन गुव्या तेन गोषितः ॥१६९॥ अन्येद्युः सोऽपरः शिष्यः प्राप्तो ग्रामाद्विलोक्य ताम्। अङ्घ्रिपीडां गुरोः पृष्टवृत्तान्तं प्रज्वलन्क्रुधा ॥१७०॥ नाहं भनज्मि किं पादं तस्य सम्बन्धनं द्विषः। इत्याकृष्य द्वितीयाङ्घ्रिं गुरोस्तस्य बभञ्ज सः ॥१७१॥ ततोऽत्र ताड्यमानोऽन्यैरपि मग्नोभयाङ्घ्रिणा। गुरुणा तेन कृपया कुशिष्यः सोऽप्यमोच्यत ॥१७२॥ सर्वद्वव्योपहास्यौ तौ शिष्यौ द्वौ ययतुस्ततः। गुरुश्च स्वक्षमाफलाभ्यां स्वस्थः सोऽप्यभवत् क्रमात् ॥१७३॥ एवमन्योन्यविद्विष्टौ मूर्खौ परिजनौ प्रभोः। स्वामिनोऽर्थं निहन्त्येव न भारमहितमश्नुते ॥१७४॥ अथ च द्विशिरः सर्पवृत्तान्तोऽप्यवधार्यताम्। कस्याप्यहेर्द्वे शिरसी अभूतामग्रपुच्छयोः ॥१७५॥