भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 962, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 962

१८ कथासरित्सागर पुच्छं शिरस्त्वभूदद्य चक्षुष्मत्प्रकृतं पुनः । अहं मुख्यमहं मुख्यमित्यासीदाग्रहस्तयोः ॥१७६॥ सर्पस्तु प्रकृतेमेव मुखेन विषधार सः । एकदास्य शिरः पोच्छं मार्गे कष्टमवाप तत् ॥१७७॥ वेष्टयित्वा दृढं वृक्षं सर्पस्यास्यारुणद् गतिम् । ततस्तद्बलवन्मेने स सर्पोऽप्रशिरोजयि ॥१७८॥ तेनैव पाथेन तत स मुखेन भ्रमन्नहिः । अवटेऽग्नौ परिभ्रष्टो मार्गदृष्टेरदह्यत ॥१७९॥ एवं गुणस्य मेऽल्पस्य बहवो नान्तरं विदुः । ते हीनगुणसङ्गेन मूढा यान्ति पराभवम् ॥१८०॥ तण्डुलभक्षकस्य कथा इमं च शृणुतेदानीं भीतं तण्डुलभक्षकम् । आगात् कश्चित्पुमा मूर्खः प्रथमं श्वाशुरं गृहम् ॥१८१॥ स तत्र तण्डुलाञ्श्वश्र्वा पाकार्थं स्थापितान् सितान् । दृष्ट्वा भक्षयितुं तेषां मुष्टिं प्राक्षिपदानने ॥१८२॥ तत्क्षणादागतायां च श्वश्र्वां मूर्खः स तण्डुलान् । नाशकसन्निगिरितुं न चाप्युद्गिरितुं ह्रिया ॥१८३॥ तत्पीनोच्छूनगल्लं च निरालापमवेक्ष्य तम् । तद्रोगशङ्कयाहूय तच्छ्वश्रूः पतिमानयत् ॥१८४॥ सोऽप्यालोक्य निनायाशु वैद्यं वैद्योऽप्यपाटयत् । शोफशङ्की हनू तस्य मूर्खस्याक्रम्य मस्तकम् ॥१८५॥ निर्ययुर्लोकहासेन समं तस्य च तण्डुलाः । इत्यकार्यं करोत्यज्ञो न च जानाति गूहितुम् ॥१८६॥ गर्भवद्दुग्धदोहककथा कश्चिच्च दारका मूर्खा दृष्ट्वोहा गवाद्विषु । गर्भं प्राप्य समुद्ध्य दोग्धुमारेभिरे रसात् ॥१८७॥ कश्चिज्जुधुवदोहं कश्चिच्च क्षीरकुण्डमधारयत् । बह्र प्राथम्रिकान्येषां पयः पातुमवर्तत ॥१८८॥