भारतकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 104, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 104

९८ कात्यायनश्रौतसूत्रम् । स्तोत्रमप्युत्कृष्येत तत्र पुरास्तमयादिति (४, ५, ३, ११,) विहितः कालो बाध्येत । ॥१४॥ नन्वनुत्कर्षपक्षेऽप्युपरिभावो बाध्यते बाध्यतां क्रममात्रं हि तत् कालस्तु बलीयानित्युक्तम्, तस्मादनुत्कर्ष इति प्राप्त आह— ( षोडशिनिस्तोत्रस्योक्थ्यविग्रहोत्तरमेवानुष्ठानं न स्वकाले ) षोडशिनि त्वानुपूर्व्यभूयस्त्वात् ॥ १ । ५ । १५ ॥ तु शब्दः पूर्वाधिकरणसिद्धान्ताद्भेदे, षोडशिनि तु अनुत्कर्षो न भवति किं तूत्कर्ष एव । कुतः आनुपूर्व्यभूयस्त्वात् आनुपूर्व्यस्य क्रमस्य भूयस्त्वात्, महत्त्वात् बलवत्त्वादित्यर्थः, कथम्, तं पराञ्चमुक्थ्येभ्य इति वचनात्षोडशिया- गाभ्यासस्योक्थ्येभ्य उपरिभावोऽङ्गं सोऽनुत्कृष्यमाणे प्रधानाङ्गं सद् बाध्येत, न चैतद्युक्तम्, अतोऽङ्गभूतस्तोत्राङ्गस्यैव कालस्य बाध इत्युत्कर्ष एव षोडशिन इति सिद्धम्, निःसन्दिग्धं च स्तोत्रस्य संनिहितग्रहयागाङ्गत्वम् । तथा चोक्तं पञ्चमस्य प्रथमपादान्त्याधिकरणे (जैमिनि. ५, १, ३२,) तन्त्ररत्ने न ग्रहणक्रमानुग्रहार्थ- मुत्कर्षो विधीयते किं तर्हि यागक्रमानुग्रहार्थम् , तस्य च स्तोत्रं प्रति प्राधान्य- मविवादम्, अतस्तस्य यागाभ्यासस्य कालेनाङ्गस्य स्तोत्रकालो बाध्यत इति युक्त एवोत्कर्ष इति । किं च अनुत्कर्षे षोडशिनो वैगुण्यम्, उक्थ्यविग्रहाणां च उत्कर्षे त्वेकस्य षोडशिन इति अतोऽपि उत्कर्ष एव ॥१५॥ इदानीमिदं चिन्त्यते—अथैवं स्वाध्यायविहिते पाठे क्रमार्थवत्त्वाद्यागेषु समिधादिषु क्रमनियमः, तथा क्रत्वन्तरेष्वपि, तद्वाक्यानामपि हि विवक्षितक्रम- मेवाध्ययनं स्वाध्यायविधिना विधीयते, तस्य च प्रयोजनान्तरं नास्त्यतः क्रमानु- ष्ठानात् , तस्मात्क्रत्वन्तराणामपीष्टिपशुसोमयागादीनां पाठक्रमेणानुष्ठानमिति पूर्वः पक्षः । सिद्धान्तमाह— ( प्रधानकर्मसु क्रमोऽनियत: ) अनियमः फलसंयुक्तेषु ॥ १ । ५ । १६ ॥ फलसंयुक्तेषु प्रधानकर्मसु इष्टिपशुसोमयागाद्यात्मकेषु अनुष्ठानेऽनियमः क्रमनियमो न भवतीत्यर्थः । तत्र काम्येषु तावत् न क्रमनियमः, अनियमेन हि कामा उत्पद्यन्ते तेषां च नास्ति क्रमः । न हि ते वाक्यक्रमेण नियन्तुं शक्यन्ते