भारतकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 105, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 105

देवयाज्ञिकभाष्यसमेतम् । ९९

वस्तुस्वभावस्य निरङ्कुशत्वात् , अतोऽनियतक्रमाः कामाः कर्मणामप्यनियमं प्रति- पादयन्तीति तद्बलेन पाठक्रमस्य बाधः । अपि च क्रतूनामनङ्गत्वदेकप्रयोग- वचनाभावाच्च नास्ति क्रमः, यदि च क्रतवः परस्परस्याङ्गं भवेयुः, यदि वा सर्व- एवान्यस्य कस्यचित्समिधादिवदङ्गं स्युः, यदि वा सत्यप्यङ्गत्वे आग्नेयादिवदेक- प्रयोगवचनपरिगृहीताः स्युः, ततः सर्वेषां सहानुष्ठानं बोधयन्प्रयोगविधिः क्रम- नियममन्यतोऽपेक्षमाणः पाठनियामकत्वेन गृह्णीयात्, न ह्येतदस्ति, न च पाठः स्वयमेव क्रमस्य विधायकः, अविधायकत्वात् । स्वाध्यायविधिरपि यद्येन शक्यते कर्तुं तत् तत्रैव नियुङ्क्ते । पाठक्रमश्च प्रयोगवचनाकाङ्क्षितक्रमनियममात्रं श- क्नोति कर्तुम्, न क्रमं विधातुम्, तस्माद्भिन्नप्रयोगवचनपरिगृहीतानां न पाठतः क्रमनियम इति सिद्धम् ॥१६॥ तर्हि पाठक्रमः किमर्थ इत्यत आह— क्रमो विध्यर्थः कर्मण्यसम्भवात् ॥१।५।१७।। क्रमो विध्यर्थः विधानार्थो जपपारायणाध्यापनादिष्वनेनैव क्रमेण पठ- नार्थः नानुष्ठानार्थः । कुतः? सर्वस्वारात्परे कर्मण्यसम्भवात् पाठक्रमेणानुष्ठाना- सम्भवात्, यतः सर्वस्वारो मरणकामस्य विहितः, यदि पाठक्रमेणानुष्ठीयेतं तर्हि सर्वस्वारेण मरणे सिद्धे सति, कथं तत ऊर्ध्वं कर्माणि कर्तुं शक्यन्ते,तस्मात्क्रत्व- नुष्ठाने क्रमनियमो न भवतीति सिद्धम् ॥ १७ ॥ ॥ इति पञ्चमी कण्डिका ॥ इदानीमिदं विचार्यते किमवत्तस्योद्धृतस्य द्व्यवदानमात्रस्य नाशे हविरन्तर- मुत्पाद्यते उत तस्मादेव हविःशेषात् पुनरवदेयमिति । तत्र सूत्रेणैव प्रथमं सिद्धान्तमाह— ( अवत्तस्य हविषो नाशे हविरन्तरमुत्पाद्यम् ) अवत्तनाशेऽन्यद्गुणानुग्रहणात् ॥ १ । ६ । १ ॥ अवत्तस्य पुरोडाशचर्वादेः सकाशात्पृथक्कृतस्यावदानद्वयमात्रस्य नाशेऽ- न्यद्धविरुत्पादनीयं यागार्थम्। कुतः ? गुणानुग्रहात् । एवं कृते मध्यपूर्वार्धावदान- रूपेण गुणेनाङ्गेन साधनभूतेन यागोऽनुगृहीतो भवति । यदि पूर्वहविःशेषादेव पुनरवदाय यागः क्रियते, तदा तस्य पूर्वार्धविक्लत्वाद्द्विगुण एव यागो भवेत्। कथम् ? द्व्यवदानस्यैव यागार्थत्वपक्षे तस्य विनष्टत्वादवशिष्टस्यायागार्थत्वात्,