कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 106, कुल 114 में से
संदर्भ में पढ़ेंसमस्तपुरोडाशस्य यागार्थत्वेऽपि द्व्यवदाननाशेन तस्य विकलत्वात् । न चासौ यागो विगुण इष्यते, तस्माद्विरन्तरमेवोत्पाद्यमुद्धृतद्व्यवदान नाश, इति प्राप्त आह— न पूर्वशेषात् ॥ १ । ६ । २ ॥ यदुक्तमवत्तनाशेऽन्यदुत्पादनीयमिति, तन्न, किं तु पूर्वशेषात्पूर्वस्यैवाव- शिष्टस्य हविषः शेषात्पुनरवदेयम् । कुतः ? विनष्टेऽपि द्व्यवदाने पुनर्मध्यपूर्वार्ध- सम्भवात् तावन्मात्रस्य च शास्त्रार्थत्वात् , पुरोडाशस्य यौ मध्यपूर्वार्धावयवौ तदपादानकं तदवयवभूतभवदानद्वयं यागसाधनम्, नष्टे च मध्ये पूर्वार्धावयवनि पूर्वसकलरूपे पुरोडाशे यो मध्यावयवः पूर्वार्धावयवश्चावदानापादानभूतः, स एवावदानापेक्षयावयवी, तस्मिन्नवदानोद्धरणे , विनष्टेऽपि मध्यान्तरस्य पूर्वार्- धान्तरस्य चावदानद्वयोपलक्षणत्वेन विद्यमानत्वात्तत एव पुनरवदेयम् । ननु कृत्स्नस्य मध्यपूर्वार्धेऽवदेयम्, न विकलस्येति चेत्, तन्न, कुतो शास्त्रार्थत्वात्, मध्यादवदीत्येतावदेव श्रूयते, न तु सकलस्य सकलपुरोडाशस्य मध्यादिति । तस्मात्पूर्वशेषादेवावदेयम् ॥ २ ॥ अचोदित्वाच्च ॥ १ । ६ । ३ ॥ किञ्च अवत्तद्व्यवदाननाशेऽन्यद्विरुत्पादनीयमित्येवमचोदित्वात् कुत्रा- प्यविहित्वात् पूर्व शेषादेवावदेयम्॥३॥ स्विष्टकृददानुपूर्व्ययोगात् ॥१।६।४॥ अपि च शेषादवदीयमाने तद्धविः स्विष्टकृदङ्गं भवति, स्विष्टकृदस्यास्तीति स्विष्टकृद्वत् । अन्यस्मिन्हविष्युत्पादिते तु इदं पूर्वहविः स्विष्टकृदङ्गं न भवति, नहि तदा ततः स्विष्टकृदर्थमप्यवदानं गृह्यते किन्तु नूतनोत्पादितादेव । कुतः ? आनुपूर्व्ययोगात् । यतः स्विष्टकृदवदानस्यानुपूर्व्ययोगः क्रमयोगोऽस्ति, प्रधाना- वदानान्तरं ततः स्विष्टकृदर्थमवदानं भवति, यदि च प्रधानावदानमेव पूर्वस्मान्न गृह्यते स्विष्टकृदर्थमपि ततो न गृह्यते, ततः पूर्वस्य हविष उत्पत्ति- र्व्यर्थैव स्यात् , शेषात्तु प्रधानार्थेऽवदीयमाने स्विष्टकृदर्थमपि ततोऽवदी यतऽएवेति पूर्वहविः स्विष्टकृदङ्गं भवति इति पूर्वपक्षे गुणः ॥४॥