कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 107, कुल 114 में से
संदर्भ में पढ़ेंदेवयाज्ञिकभाष्यसमेतम् । १०१ अथोक्तमेवसिद्धान्तं दृढयति— गुणहानौ तु शेषाभावात् ॥१।६।५॥ तुशब्दः पक्षव्यावृत्तौ, गुणहानौ इति गुणस्य यागं प्रति गुणभूतस्य यागसाधनभूतस्य व्यवदानस्य हानिर्गुणहानिः हविषो मध्यपूर्वभागस्य यागं प्रति गुणभूतस्य यागसाधनभूतस्य हानौ सत्यां नाशे सति न पूर्वशेषादवदेयम् । कुतः? शेषाभावात् । शेषत्वादेव तस्यावशिष्टस्य शेषकार्यार्थत्वादित्यर्थः । कृत्स्न- स्य हि पुरोडाशस्य यो मध्यदेशः तदपादानको यस्तस्योपरितनोऽङ्गुष्ठपर्वमात्रो वयवः सोऽवदातव्यः, अन्यस्त्ववदेयस्यापादानभूतः, न त्वसाववदातव्यः, सत्विडादि- शेषकार्यार्थो न प्रधानकार्यार्थः, अतो नासौ हविः । यत्तु हविस्तद्विनष्टम्, तद्वि- नाशे च हविरन्तरमेवोत्पाद्यम् । यदा च व्यवदानस्यैव यागार्थता ततस्तद्विनाशे शेषस्य कार्यार्थत्वाभावात् द्रव्यान्तरं यागार्थमुत्पाद्यम् । यद्यपि समस्तपुरोडाश- साध्यो यागस्तदापि व्यवदाननाशे तस्य विकलत्वादविकलं हविरन्तरमुत्पाद्यम् । तस्मात्साधूक्तम्, अवत्तनाशेऽन्यदिति । तदुक्तम् संस्काराणां पुरोडाशे व्यवदानं प्रयोजकम् । तद्विनाशाच्च नष्टास्ते नावदेयमतस्ततः गृहीतौ मध्यपूर्वार्धौ तौ च नष्टावुभावपि, अतः शेषस्य शेषत्वात्प्रधानत्वं न युज्यत इति ॥५॥ अथेदं चिन्त्यते—इन्द्रादिसोमादिदेवतानामाहवनीयादीनामग्नीनां मन्त्राणामिषेत्वेत्यादीनां क्रियाणामदृष्टार्थानां प्रयाजप्रोक्षणादीनामस्मरणादिना- ऽपचारे किं देवतान्तरमग्न्यन्तरं शब्दान्तरं क्रियान्तरं च प्रतिनिधेयम्, उत नेति? पूर्वेण न्यायेन प्रतिनिधौ प्राप्त आह— [ अग्निशब्ददेवताक्रियाणां प्रतिनिधिर्नास्ति ] न देवताग्निशब्दक्रियाः परार्थत्वात् ॥१।६।६॥ देवताऽग्न्यादिकाः, अग्नय आहवनीयादयः, शब्दो मन्त्रः, क्रियाः प्रोक्षण- प्रयाजादिकाः, अदृष्टार्थाः। दृष्टार्थेषु त्ववघातादिष्वस्त्येव प्रतिनिधिः, नखनिर्लुण्ठ- नादिभिरपि तत्कार्यसिद्धेः । तदेतेषां देवतादीनामस्मरणादिनाऽपचारे प्रतिनि- धिर्न भवति। कुतः? परार्थत्वात् अदृष्टार्थत्वादित्यर्थः। प्रतिनियतानि ह्येषामदृष्टानि, तथाहि—यत्र हि प्रतिनिधीयमानं मुख्यस्य कार्यं साधयति, तत्र प्रतिनिधिः। नत्विह तथा सम्भवति । देवता तावद्विधिलक्षणा, न त्वन्या, आनीयमाना देवता भवति न चादेवतायै संकल्प्यमानो यागो भवति, अतो न देवता कार्यमन्यतः सम्भवति।