कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 108, कुल 114 में से
संदर्भ में पढ़ें१०२ कात्यायनश्रौतसूत्रम् । अतोऽग्न्यादिके विधिशब्दे विस्मृते तदर्थवाचकं वा न प्रतिनिधिधातव्यम्। एवं च गत्यभावाद्यागस्यापि लोपः, न हि त्यागमात्रं यागः, किन्तु देवतोद्देशेन त्यागः। तेनासत्यां देवतायां प्रधानस्यैव यज्ञार्थस्य स्याल्लोपः, किं च सदृशं प्रतिनिधिधात- व्यम्। देवताया अभावश्च शब्दनाशे,शब्दद्वारेण च देवतात्वम्। अतो मुख्यदेवता- शब्दं स्मृत्वोत्तरकालं तत्सदृशशब्दस्य स्यादुपादानम्, न ह्यस्मृते मुख्ये तत्सदृशो बुद्धावारोपयितुं शक्यः। न च स्मृतस्य मुख्यस्य परित्यागो युक्तः। तस्माद्देवताया न प्रतिनिधिरिति। तथाग्निरप्याहवनीयादिरदृष्टार्थो विनाप्याधारेण प्रक्षेपसम्भ- वात्। न चाहवनीये प्रक्षेपे कृते यददृष्टं तदन्येन सिध्यतीति प्रमाणमस्ति,तस्मा- दग्नीनां न प्रतिनिधिः। नीवारादिना तु पुरोडाशनिष्पत्तिः प्रत्यक्षत एव दृश्यते। मन्त्रस्तु यद्यपि पदार्थप्रकाशनार्थत्वाददृष्टार्थः। तथापि तस्य ध्यानादपि सिद्धेर्न मन्त्रान्तरं प्रतिनिधेयम्। अत्रार्थेन स्मृतेन प्रयोजनमस्ति न मुख्येन मन्त्रेण, नापि तत्सदृशेन शब्दान्तरेण। अवश्यं हि मन्त्रार्थप्रतिपादकं शब्दान्तरं प्रतिनि- धता येन केनचिदुपायेनार्थः प्रथमं स्मर्त्तव्यः, तदभावे तत्प्रतिपादकशब्दान्तरोपा- दानासम्भवात्, ततश्च सिद्धे स्मरणे न प्रतिनिधिना कार्यम्। स्मरणार्थमेव हि प्रतिनिधीयते, न च शब्देन स्मरणं कर्तव्यमिति वचनमस्ति। किं तर्हि, मन्त्रवि- शेषााम्नानसामर्थ्यादुपद्रष्ट्राद्युपायनिवृत्तिः। असति च मन्त्रे उपद्रष्ट्रादि केन वार्यते, अतो नास्ति शब्दान्तरं प्रतिनिधिः। ये तु मन्त्रनियमकृतं यददृष्टं न तदन्येन सिध्यतीत्यप्रतिनिधिमाहुः। तेषां व्रीह्याद्यपचारोपि तत्कृतनियमादृष्टस्या- न्यथासिद्धिर्द्रव्यान्तरप्रतिनिधिर्न सिध्येत्, क्रियायाऽपि प्रतिनिधिर्न भवति, य- त्यजादिभिरदृष्टं क्रियते तदन्या क्रिया करिष्यतीति नास्ति प्रमाणम् , हन्त्यादीनां तु दृष्टार्थत्वात् द्रव्यवदस्त्येव प्रतिनिधिः। क्रियाग्रहणं त्वदृष्टार्थक्रियाभिप्राय- मिति ॥६॥ कामं देवताम् ॥ १ । ६ । ७ ॥ योऽग्निशब्दक्रियाः प्रतिनिधत्ते स कामं स्वेच्छया देवतामपि प्रतिनिदध्यात्। अकामानुमतौ