कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 109, कुल 114 में से
संदर्भ में पढ़ें( निषिद्धानां माषादीनां प्रतिनिधित्वं नास्ति ) प्रतिषिद्धं प्रत्यवायात् ॥ १ । ६ । ८ ॥ नेत्यनुवर्तते । यद्द्रव्यं कोद्रवमाषवरटादि प्रतिषिद्धं न तत्प्रतिनिधेयम् । कुतः ? प्रत्यवायात्। यतः प्रतिषेधातिक्रमे प्रत्यवायो भवति। तथाहि "अयज्ञिया वै कोद्रवा अयज्ञिया वै वरटका अयज्ञिया वै माषा इति प्रतिषिद्ध्यज्ञसाधनभावा मा- षादयः मौद्गे चरौ मुद्गानामभावे सादृश्यान्माषाः प्राप्नुवन्ति श्यामाकचरौ च कोद्रववरटकाद्या इति, अत्र माषाद्याः प्रतिनिधित्वेन ग्राह्याः न वेति संदेहः, तत्र यज्ञाङ्गत्वं माषादीनां प्रतिषिध्यते, प्रतिनिधित्वे तु न माषस्य यज्ञाङ्गत्वम्, किन्तु तद्गतस्य मुद्गाद्यंशस्य, अतः प्रतिनिधेया माषादय इति चेत्, मैवम्, अयज्ञिया इत्य- नेन यज्ञार्हतामात्रं प्रतिषिध्यते । प्रतिनिधित्वे चावर्जनीयं साधनत्वम् । अतो न माषादीनां प्रतिनिधित्वम् । तदुक्तम् "व्रीहिर्यवो वा श्यामाको नीवारो वा हवि- र्भवेत्। वेणुर्यवा मसूरं वा शाकं मूलं फलं जलम्। सत्यं वा हविरेतेषु यथा सम्भ- वमाचरेत् । प्रतिनिध्यन्तरवत्सत्यं विज्ञेयं हविरत्यये । प्रधानदेवतोद्देशात्संत्यज्येतस- त्यमात्मनः। अतोऽन्यदपि वा ग्राह्यं सदृशं धान्यमात्रकम् । न ग्राह्यं सर्वथामाष- वरटोदारकोद्रवम् । यद्वा व्रीहियवाभावे तुषतण्डुलयोगिनीः । ओषधीः परिगृह्णीयादणुकद्रोववर्जिताः। ग्राम्याणां वा भवेद्ग्राम्यमारण्यानामरण्यजम् । यवाभावे तु गोधूमास्ततो वेणुयवादयः" इति ॥८॥ अथेदं विचार्यते, प्रोषिते कार्यान्तरव्यापृते मृते वा यजमाने तत्स्थाने किं याजमानपदार्थकरणाय पुरुषान्तरं प्रतिनिधेयमुत नेति, तत्र व्रीह्याद्यपचार इव प्रतिनिथौ प्राप्त आह— ( यजमानस्य प्रधानकार्ये प्रतिनिधिर्नास्ति ) स्वामी फलयोगात् ॥ १ । ६ । ९ ॥ नेत्यनुवर्तते । स्वामी यजमानो न प्रतिनिधेयः। मृते तावत्कः पुरुषान्तरं प्रतिनिधिध्यात् । को वाध्वर्य्यादीन्प्रवर्तयेत् स्वयमप्रवर्तमानेषु च तेषु न मृतस्या- कर्तुः फलं सिध्यति । यदि तु प्रतिनिहितो दक्षिणादानं द्रव्यत्यागं च करोति तदा तस्य सम्यक्फलसम्बन्धान्मुख्य एव स्वामी स्यान्न प्रतिनिधिः। पत्नीत्वस्व- तन्त्रा अनग्निश्च मृते पत्यौ पुरुषान्तरं प्रतिनिधाय प्रयोक्ष्यतीत्यनाशङ्कनीयमेव,