कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 18, कुल 114 में से
संदर्भ में पढ़ें१२ कात्यायनश्रौतसूत्रम् । विरोधात् । अतो निर्धनत्वप्रतिपादकं वचनमस्वातन्त्र्यपरं व्याख्येयम् । तस्मा- त्स्त्रिया अपि फलार्थित्वाविशेषाद्धनवत्त्वाच्चाधिकारो भवति ॥ ७ ॥ दर्शनाच्च ॥ १ । १ । ८ ॥ दृश्यते चायमर्थो वेदे । यत्पत्न्यपि कर्मस्वधिक्रियत इति । "मेखलया यजमानं दीक्षयति योक्त्रेण पत्नीम्" इति "पत्नी लौह" इति "पत्नी च गार्हपत्ये तूष्णीम्" इति च । अत्र योक्त्रादिविधिपरेषु वाक्येषु पत्न्या अपि कर्म- स्वधिकारदर्शनात्पत्न्यप्यधिक्रियत इत्युक्तम् । अथवा वेदे पत्न्या अपि धनव- त्त्वाददर्शनाच्च पत्न्यप्यधिक्रियते । तथाहि "भयदा पत्नीं संयाजयन्ति भयद्धीर्या हि पत्न्यो भयदा वा एताः परगृहाणामैश्वर्यमवरुन्धत" इति । एवं पत्न्या अ- धिकारे सिद्धे, इदं चिन्त्यते । किं पत्नी पृथग्यजेत, यजमानश्च पृथक्, उतोभौ सम्भूय यजेयातामिति । किं प्राप्तम् ? पृथक् पृथगिति । कुतः ? यजेतेत्याख्या- तप्रत्ययगताया एकलसङ्ख्याया उद्देश्यगतत्वाभावेन विवक्षाया वारयितुमशक्य- त्वात् । अत एककर्त्तृत्वसिद्धये यजमानेन पत्न्या च पृथग्यागः कर्तव्य इति पूर्वः पक्षः । सिद्धान्तस्तु । न पृथग्यागः कार्यः कुतः ? वैगुण्यसम्भवात् । दर्शपूर्ण- मासादौ आज्यस्य पत्न्यवेक्षणं यजमानावक्षणं चेत्युभयमाम्नातम्स्ति । तत्र पृथक् प्रयोगे क्रियमाणे यजमानकर्तृके यागे पत्न्यवेक्षणं लुप्येत, पत्नीकर्तृके च यजमानावक्षणम् । तस्माद्वैगुण्याय सहैव दम्पती यजेयाताम् । ननु पृथगपि यजमानः पुमानध्वर्त्वादिवत्परिक्रयेणाज्यावेक्षणार्थं पत्नीं सम्पादयिष्यति स्त्री च यजमानम् । मैवम्, स्वामिनः परिक्रयेणासम्पन्नत्वात् । न हि या काचित् स्त्री पत्नी शब्दवाच्या । यज्ञस्वामिनी हि सा । "पत्युर्नोयज्ञसंयोगे" इति पाणिनि- स्मरणात् । एवं यजमानशब्दमपि यज्ञस्वामिन्येव स्मरन्ति । तस्मात्सहैव कर्तृ- त्वमुभयोः । न च यजेतेत्येकवचनं विरुद्धम् । अग्नीषोमौ देवतेत्यत्र यथा व्यासक्तयोर्देवतात्वाद्देवैक्यम्, तथा दम्पत्योरेकमेव कर्तृत्वमित्यङ्गीकारात् । अनयोर्हि उद्वाहकाल एव द्रव्यसाधारण्यमुक्तम् । "धर्मे चार्थे च कामे च नातिचरितव्या" इत्यनेन । अतो यस्त्यागः स इतरेतरसंसृष्टयोरेव दम्पत्योः । नहि साधारणमेकेन त्यक्तुं शक्यते । भिन्नयोरपि दम्पत्योः संसृष्टद्रव्ययोः पृथक् स्वतन्त्रकर्तुमप्रभवतोरेकमेव स्वातन्त्र्यलक्षणं कर्तृत्वम् ।