कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 20, कुल 114 में से
संदर्भ में पढ़ेंध्यति, अन्यतरस्य संस्कारो हीयेत । नच तत्र यजमानस्योपादेयत्वेन श्रवणम् । तस्माल्लिङ्गमप्यविवक्षितम् । अत आसां ब्रह्मचर्यमुभयोः “आशीः”शब्देनात्र- संस्कारा लक्ष्यन्ते । व्रत्याशनाधःशयनपावनाक्षाञ्जनाभ्यञ्जनादयः । ते ह्युभयो- र्भवन्ति । संस्कारेष्वपि पत्न्या वपनं न भवति । कुतः ? वपनविधौ “केशश्मश्रु- वपते” इति समाहारद्वन्द्वोऽयम् । तत्र केशश्मश्रुणोरितरेतरयोगे सति शास्त्रोक्तं वपनं न सम्पद्यते । न च पन्त्यास्तयोः साहित्यमस्ति । श्मश्वभावात् । अतस्त- स्या न वपनमसामस्त्यादिति तन्त्ररत्ने । ब्रह्मचर्यग्रहणं काम्यानां लक्षणार्थम् । ब्रह्मचर्याशीर्ग्रहणेनैव लक्षितत्वात् । कामा अपि पत्न्या भवन्ति, तदभावेऽधि- कारानुपपत्तेः । ये मन्त्राः क्रत्वर्थकास्तेष्वपि यजमान एव कर्त्ता विद्वत्त्वात्स्व- तन्त्रत्वाच्च । अतः सर्वं समन्त्रकममन्त्रकं च याजमानं यजमानेनैव कर्त्तव्यम् । आहत्य विहितं त्वाज्यावेक्षणादि पत्न्या कर्त्तव्यं नान्यत् । तदेवमङ्गहीनादिवर्जि- तानां ब्राह्मणक्षत्रियवैश्यानां पत्नीसहितानामग्निहोत्रादिकर्मस्वधिकार उक्तः ॥८॥ (रथकारस्याधान एवाधिकारः) अथ रथकारस्याधिकारमाह- रथकारस्याधाने ॥ १ । १ । ९ ॥ रथकारस्याधाने अग्न्याधानकर्मणि अधिकारो भवति । “वर्षासु रथ- कार आदधीत” इतिश्रुतेः । अत्रेदं सन्दिह्यते । किं त्रैवर्णिकानामन्यतमो रथकरणयोगाद्रथकार इत्युच्यते ? आहोस्विन्नियतं किञ्चिज्जात्यन्तरमिति । किं तावत्प्राप्तम् ? त्रैवर्णिकानामन्यतम एवेति । कुतः ? सोऽपि हि रथं करोती- त्ति योगाद्रथकार इत्युच्यते । तस्य च त्रैवर्णिकत्वादाधानं प्राप्तमेव । ऋतुमात्रं विधे- यम् । तथा सत्येकार्थविधानाद्वाक्यभेदो न भवति, लाघवं च । जात्यन्तरपक्षे तु तस्याधानं विधातव्यमृतुसम्बन्धश्च । तथा सति वर्षास्वादधीत रथकार आद- धीतेत्येवं वाक्यभेदः स्यात् । अपि तु शूद्रस्त्वसमर्थत्वात्प्रतिषिद्धः । तस्मा- त्त्रैवर्णिकानामन्यतम एवेति पूर्वः पक्षः ॥ ९ ॥ सिद्धान्तमाह— नियतं च ॥ १ । १ । १० ॥ चो वेत्यर्थे । वाशब्दश्च पूर्वपक्षनिरासार्थः । न त्रैवर्णिको रथकारः । तस्या- शिल्पोपजीवनस्य प्रतिषिद्धत्वात् । किन्तु नियतं जात्यन्तरमेव । अत्र केचिदेव- माहुः-वैश्यायां क्षत्रियादुत्पन्नो माहिष्यः, शूद्रायां वैश्यादुत्पन्ना करणी, तस्यां