कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 21, कुल 114 में से
संदर्भ में पढ़ेंदेवयाज्ञिकभाष्यसमेतम् । ३५ च करण्यामाहिष्यादुत्पन्नो रथकार इति । तदुक्तं स्मृतौ । “माहिष्योग्रौ प्रजायेते विट्शूद्राङ्गनयोर्नृपात् । शूद्रायां करणो वैश्याद् ” इति । याज्ञवल्क्योऽपि “वै- श्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ । वैश्यात्तु करणः शूद्यां विन्नास्वेष विधिः स्मृतः ।” विन्नासु विधिना परिणीतासु । तथा । “माहिष्येण करण्यां तु रथकारः प्रजायते” इति । अतो रथकारशब्द एवंविधसङ्करजातौ रूढः । रूढिश्च योगाद् बलीयसीतिन्यायात् । रथं करोतीति योगं बाधित्वा जात्यन्तर- मेव रथकारशब्देनोच्यते । तस्यैवाधानं कालविशिष्टं विधीयते । विशिष्टविधा- नाच्च वाक्यभेदोऽपि न भवति अपरे त्वाहुः—रथकारशब्देनात्र सुधन्वनां ग्रहणम्। “ऋभूणां च” इत्याधानमन्त्रवर्णात् । सौधन्वनाश्च ऋभव इति सामाना- धिकरण्यनिर्देशात् । तथाचाह मनुः । “ व्रात्या तु जायते वैश्या न सुधन्वाचा- र्य एव च । पारुषश्च विजन्मा च मैत्रः सात्वत एव च” इति । अतो मनुक्तो यः सुधन्वा व्रात्यवैश्यपुत्रः, तत्पुत्राणां सौधन्वनानामृभूणामेवात्राधिकारः । य- स्तुयाज्ञवल्क्येनोक्तो न तस्याधिकारः, सत्यपि रथकारशब्दवाच्यत्वे मन्त्रव- र्णात् । छागन्यायेन सौधन्वनानामेवाधिकार इति । तथाच जैमिनिः। “सौध- न्वनास्तु हीनत्वान्मन्त्रवर्णात् प्रतीयेरन् ” ६-१-११-५० इति । सौधन्वना- नामजातिहीनास्ते केचिन्त्रैवर्णिकेभ्यो जात्यन्तराः । नच ते शूद्रा, न वैश्या, न क्षत्रिया, न ब्राह्मणा इति । तेषामिदमाधानम् । कथमप्रसिद्धेर्मन्त्रवर्णाच्च । मन्त्रवर्णो हि भवति । सौधन्वना ऋभव इति । “ऋभृणत्वा” इति च रथकार- रथाधानमन्त्रः । तस्मात्सौधन्वना ऋभवश्च रथकाराः । अपि च “तं नेमिमृभवो यथा” इतिच । ‘ये नेमिं नमन्ति ते ऋभवः’ इत्युच्यन्ते । रथकाराश्च नेमिं नमन्ति । तस्मात्त्रैवर्णिकानामशूद्राणामेतदाधानमिति शबरस्वामिनः ॥ १० ॥ ननु विध्यभावेन सौधन्वनानामसमर्थतयाऽनधिकारात्त्रैवर्णिक एवावयव- व्युत्पत्त्या रथकारशब्देन किमिवि न गृह्यते । सोऽपि हि रथकारो भवति । तस्याधानं प्राप्तमेवानूद्य, ऋतुमात्रविधानाल्लाघवं भवति । जात्यन्तरे तु विशिष्ट- विधानाद् गौरवं स्यादित्याशङ्कायामुत्तरमाह— नाभावादित्वात्स्यः ॥ १ । १ । १२ ॥ वात्स्य ऋषिरित्याह । न त्रैवर्णिको रथकारः । कुतः ? अभावात् । त्रैवर्णिकस्य रथकारस्याभावात् । कथमभावः ? यौगिकोऽयं शब्दो रथं करोतीति रथकार इति तेन यावत्कालं रथकरणसम्बन्धस्तावत्कालं रथकार इत्युच्यते न