कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 39, कुल 114 में से
संदर्भ में पढ़ेंतथा सम्पवनं पिण्डस्योत्पत्तिं दोहनं पयसः प्राप्तिम् । अवघातो व्रीहीणां विकार- मदृष्टार्थं तु सन्निपाति संस्कारं स्वकारकस्य कुर्वत्प्रधानेनोपकारि भवति । तदेव- मुत्पत्त्यादिसाध्यभेदासन्निपाति चतुर्विधं भवति । तच्च कर्मादीनामन्यतमे कारके यथायथमुत्पत्त्यादि करोति । कर्मण्यवघातः । कर्तरि व्रतम् । करणे प्रयाजे शेषा- भिधारणम् । सम्प्रदाने पशुपुरोडाशयागः । अपादाने “अग्नेस्तृणान्यपचिनो- ति” इति । अधिकरणे दध्यानयनम् । आरादुपकारकं तु न कारकद्वारम् । अपूर्वद्वारं तु प्रधानस्योपकरोतीति । दृष्टादृष्टार्थं च किञ्चित्कर्म, यथा पशुपुरोडाशयागः । स हि त्यागांशेनादृष्टमुपदे- शांशेन देवतास्मरणं करोतीत्युभयार्थः । एवमेव स्विष्टकृद्यागादयोऽप्युभयार्थाः। तत्रापि त्यागांशेनादृष्टमुत्पद्यते । प्रधानयागोपयुक्तहविरुत्तरार्धा च प्रतिपाद्यते ॥४॥ यजतयश्चाफलयुक्ता इत्यत्र यजतिजुहोतयः प्रस्तुताः, अतस्तयोर्विवेकं पृच्छति— यजतिजुहोतीनां को विशेषः ॥ १ । २ । ५ ॥ यजतीनां यागानां जुहोतीनां होमानां को भेद इति प्रश्नः ॥ ५ ॥ तत्र यजतीनां विशेषमाह— ( यागानां विवेचनम् ) तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्यावन्तो यजतयः ॥ १ । २ । ६ ॥ तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्यावन्तो यजतय उच्यन्ते, इति विशेषः । तिष्ठता होमो येषु ते तिष्ठद्धोमाः, वषट्कारेण प्रदानं येषु ते वषट्कारप्रदानाः, तथा, याज्यावन्तः पुरोडाशवन्तश्च ये, ते यजतय उच्यन्ते ॥६॥ अथ जुहोतीनां विशेषमाह— ( होमानां विवेचनम् ) उपविष्टहोमाः स्वाहाकारप्रदाना जुहोतयः ॥ १ । २ । ७ ॥ उपविष्टेन कर्त्रा होमो येषु ते उपविष्टहोमाः, स्वाहाकारेण प्रदानं येषु ते स्वाहाकारप्रदानाः । ये उपविष्टहोमाः स्वाहाकारप्रदानाश्च ते जुहोतयः, इत्यु- च्यन्ते ॥ ७ ॥