कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 40, कुल 114 में से
संदर्भ में पढ़ेंपूर्वमग्न्यन्वाधानादानां चाङ्गत्वं सप्रमाणकमुक्तम् । तानि चाङ्गानि ऋत्वि- जः कुर्वन्तीति वक्ष्यति । “शेषमितरे यथाख्यम्” इति कर्माणि पुरुषाणामि- ति च । तत्रेदं चिन्त्यते-दर्शपूर्णमासज्योतिष्टोमादिषु किं त्रयोऽपि वर्णा ब्राह्मण- क्षत्रियवैश्या ऋत्विजो भवन्ति, उत ब्राह्मणा एवेति । किं तावत्प्राप्तम् ? त्रयो- ऽपि वर्णा ऋत्विजो भवेयुरिति । कुतः ? प्रभुत्वात् । सर्वेप्यध्ययनवन्तो विद्वांस- श्चेत्यतः सर्वेपि कर्तुं शक्नुवन्ति । यजनाध्यापनप्रतिग्रहा ब्राह्मणस्यैव वृत्त्युपाया इति नियमः पुरुषार्थतया स्मर्यते, न क्रत्वर्थतया । तेन क्षत्रियवैश्यावार्त्विज्यं कुर्वन्तौ नियमातिक्रमात्कामं प्रत्यवेयाताम्, न तावता क्रतोः काचिद्गुणहानिः । तस्मात्त्रयोऽपि वर्णा ऋत्विजो भवन्तीति पूर्वपक्षे सिद्धान्तमाह—
( ब्राह्मणानामेवार्त्विज्येऽधिकारः )
ब्राह्मणा ऋत्विजो भक्षप्रतिषेधादितरयोः ॥ १ । २ । ८ ॥
ब्राह्मणा एव ऋत्विजो भवेयुः, न क्षत्रियवैश्याः । कुतः ? इतरयोः क्षत्रि- यवैश्ययोर्भक्षप्रतिषेधात् । अग्निहोत्रशेषं प्रकृत्य श्रूयते— “ते. होचुः, को न इद ९ होष्यति” इति प्रकृत्य “तस्मात्तद्य एव कश्च पिबेत्तद्वै नाब्राह्मणः पिबे- दग्नौ ह्यधिश्रयन्ति तस्मान्नाब्राह्मणः पिबेत्” इति, किम्पुनरग्निहोत्रोच्छिष्टमिति । ननु स्थाल्यामपि यदवशिष्टं तदप्यग्निहोत्रोच्छिष्टमेव स्यात् । नेत्याह । अथ यत्स्थाल्यामिति । यत्स्थाल्यां परिशिष्टं तद्यथा परिमहः । अनग्नौ निर्वपेत् । तद्यथा कुटुम्बार्थे सर्वसाधारणं तादृशं तद्यत्स्थाल्यां परितोद्धपरिश्रितं चान्यं पूर्णं शकटस्योपरिष्टान्नं परिणत् । यथा ततो हविषो निर्वायेपि तद्गतं धान्यं न शेषः । किं तर्हि ? पुनरपि योगान्तरयोग्यमेव । एवमेव तद्यत्स्थाल्यां पय इत्य- र्थः । तस्मात्तद्यः कश्चिदकर्मसम्बन्धोऽपि पिबेत् । तथापि त्वग्नावधिश्रितत्वाद- ब्राह्मणो न पिबेत् । ब्राह्मणस्त्वसम्बन्धोऽपि पिबेदिति । शाखान्तरे तयोः सान्ना- य्यभक्षप्रतिषेधः श्रूयते । “न राजन्यो न वैश्यो वा सान्नाय्यं पिबेदसोमपीथी ह्येषः” इति । तथा दर्शपूर्णमासयोः शाखान्तरे चतुर्थाकरणे ब्राह्मणा एव नि- र्दिश्यन्ते । “ब्राह्मणानामेवेदं हविः सोम्यानां सोमपानां नेहाब्राह्मणस्यास्ति” इति शेषभक्षणार्थं हि चतुर्थाकरणम् । शेषभक्षाश्चर्त्विजाम् । यदि च राजन्यवैश्य- योरप्यार्त्विज्यं स्यान्न ब्राह्मणानामेवेदं हविः स्यात् । राजन्यवैश्ययोरपि पक्षे स्यात् । तत्रेदमवधारणमसङ्गतं भवेत् ॥ ८ ॥