कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 41, कुल 114 में से
संदर्भ में पढ़ेंदेवयाज्ञिकभाष्यसमेतम् । ३५ दर्शनाच्च ॥ १ । २ । ९ ॥ श्रुतावप्ययमर्थो दृश्यते, यत्, ब्राह्मणा एवर्त्विजो भवन्ति, न क्षत्रियवैश्या इति । तथाहि-“ द्वया वै देवा-देवा आहैव देवा अथ ये ब्राह्मणाः शुश्रुवाꣳ- सोऽनूचानास्ते मनुष्यदेवास्तेषां द्वेधा विभक्त एवं यज्ञ आहुतय एवं देवानां दक्षिणा मनुष्यदेवानां ब्राह्मणानाꣳ शुश्रुषुषामनूचानानामाहुतिभिरेव देवान्प्री- णाति दक्षिणाभिर्मनुष्यदेवान्ब्राह्मणान् ” इति “ तस्मादृत्विग्भ्य एव दक्षिणा दद्यान्नानृत्विग्भ्यः ” इति । ऋत्विग्भ्यो यद्दीयते परिक्रयार्थं तद्दक्षिणाशब्दाभि- धेयम् । “ दक्षिणाभिर्ब्राह्मणान् प्रीणाति ” इत्यनेन दक्षिणानां ब्राह्मणसम्बन्धो दृश्यते । अतोऽपि ब्राह्मणा एवर्त्विजः । किञ्च, दर्शपूर्णमासिक्यां चान्वाहार्यदक्षिणायां ब्राह्मणा एव दृश्यन्ते । तदेवं “ ते वै देवा अहुतादो यद्ब्राह्मणायान्वाहार्यमाहरति ” इति । दक्षिणा चार्त्विग्भ्यो दीयते । तस्माद्ब्राह्मणा एवर्त्विजो न क्षत्रियवैश्या इति सिद्धान्तः। ब्राह्मणा एवर्त्विज इति नियमः क्रत्वर्थः । यतोऽब्राह्मणस्यार्त्विज्ये क्रतु- वैगुण्यापत्तेः । तथाहि रामायणे- “ क्षत्रियो याजको यस्य चाण्डालस्य विशेषतः । कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ” इति । तथा-“ राजयाजकयाज्यस्य विनश्यति तथा हविः ” इति चाब्राह्मणा- र्त्विज्ये हविर्विनाशः स्मृतः । तथा-“ प्रतिग्रहोऽधिको विप्रो याजनाध्यापने तथा ” इतिस्मृतिश्च । अत एवाग्न्यधिश्रितस्य भक्षणप्रतिषेधात् क्षत्रियवैश्ययो- र्ऋतौ यजमान भागस्यापि होम एव विहितो न भक्षणमिति ॥९॥ इदानीमिदं विचार्यते “चित्रया यजेत पशुकामः” “ द्वादशाहमृद्धिकामा उपेयुः” “ स्वर्गकामस्यर्तयेयः” इत्येवमादीनां फलयुक्तानां कर्मणामारम्भे किं कर्तुर्यथाकाम्यतांवश्यं तेषां करणमिति । तत्र विधिबलादवश्यकरणे प्राप्त आह- ( फलयुक्तकर्मानुष्ठाने याथाकाम्यम् ) फलयुक्तानामारम्भे याथाकामी फलार्थित्वात् ॥ १ । २ । १० ॥ फलयुक्तानां फलसम्बन्धवतामारम्भे कर्मकर्तुर्याथाकाम्यं भवेत् । इच्छयां