भारतकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 42, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 42

प्रवृत्तिः स्यादित्यर्थः । कुतः ? फलार्थित्वात् । फलमर्थयते याचत इति फलार्थी । यतस्तस्य फलार्थिनः फलमाप्त्यर्थं कर्म विधीयते, नान्यस्य । तेन यः फलं प्राप्तुं वाञ्छति स फलयुक्तानि कर्माणि तत्प्राप्त्यर्थं करोति नान्यः । काममनतिक्रम्य यथाकामम्। यथाकाममित्यस्य भावो याथाकामी याथाकाम्यमित्यर्थः। ब्राह्मणत्वा- द्यथाकामशब्दस्य “गुणवचनब्राह्मणादिभ्यः कर्मणि च” इतिष्यञ्प्रत्ययः । यथा स्त्रियां स्वभावात्तलन्तं वर्तते, एवं ष्यञन्तमपि क्वचिस्त्रियां वर्तते यथा चिती वैदग्धी यथाकामीति पदवृत्तौ । तेन क्वचित्तदन्तं स्त्रियां नपुंसके च वर्तते । यदा स्त्रियां तदा ष्यञः ञित्त्वात् “षिद्गौरादिभ्यश्च” इति ङीष् । “यस्ये- ति च” इत्यकारलोपः । “हलस्तद्धितस्य” इति यकारलोपः । यथा चित्यं विततीति,