भारतकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 51, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 51

[Header] देवयाज्ञिकभाष्यसमेतम् । ४६

माकाङ्क्षया गृह्यते । न त्वदृष्टप्रयोगिप्रयाजाद्यङ्गमदृष्टस्य साध्यस्याभावादिति चेत्, न; यागस्य स्वतोऽपुरुषार्थत्वेनान्यथानुपपत्त्या समानपदोपात्तं यागमुत्सृज्य सर्वेषा- मभिमतस्य प्रत्यवायपरिहारस्येह भाव्यतया कल्पनात् । ननु चेत्सर्वेषामभिमतः स्वर्गः किमिति न कल्प्यते । तस्य शरीरारम्भ- हेतुतया मोक्षविरोधित्वेन मुमुक्षूणामनभिमतत्वात् । प्रत्यवायपरिहारस्तु तैरपीष्यत एव । कथम् ? तस्मिन्पापे एतज्जन्मोपार्जिते भवान्तरोपार्जिते वावस्थिते सति तदुपभोगहेतुभूतशरीरारम्भावश्यम्भावेन मोक्षाभावात् । अमोक्षार्थिनाप्यवश्यं पापक्षय एषितव्य एव समीहितफलाय । इतरथाऽप्रक्षीणे पापे फलाप्राप्तेः । तस्मा- न्नित्यानि कर्माणि पापक्षयोपायत्वेन चोद्यमानानीतिकर्तव्यतामपेक्षन्त एव । धर्मशास्त्रेषु च तथैवाकरणे प्रत्यवायः स्मृतस्तथैव करणादपि पापक्षयः स्मर्यते “पूर्वां सन्ध्यां जपंस्तिष्ठेन्नैशमेनो व्यपोहति” इत्यादिभिः । “नित्यनैमित्तिकै- रेव कुर्वाणो दुरितक्षयम्” इति च । तस्मान्नित्येऽपि अस्त्येव प्रत्यवायपरिहार- रूपं फलम् । तस्मान्नित्यान्यपि कर्माणि सर्वाभिमतस्य तस्य पापक्षयस्योपायत्वेन बोध्यमानानीतिकर्तव्यतामपेक्षन्त एव । ततश्च न सर्वाङ्गोपेतमनुष्ठानं कश्चिदपि सर्वदा कर्तुं शक्नोति । जीवनादिनिमित्ते च तानि विधीयन्ते । निमित्तस्य चैत- देव रूपं तस्मिन्सति नैमित्तिकमवश्यमेव कर्तव्यम् । तेन यावज्जीवं कर्तव्यं, सर्वा- ङ्गोपेतं च कर्तव्यमिति दुःशकमेव । तेन यथाशक्नुयादित्युपनिबध्यते । तत्रावश्य- मन्यतरस्मिन् हातव्ये निमित्ते सति नैमित्तिकस्य कर्तव्यं प्रधानवाक्ये श्रूयते । तद्यदि कस्यचिदङ्गस्यानुरोधेन, सति निमित्ते नैमित्तिकं न क्रियेत । ततः प्रधान- वाक्यविरोधः स्यात् । प्रधानमात्रश्रुत्या निमित्ते विधीयते, अङ्गानि तु तदर्थतया प्रकरणेन गृह्यन्ते, अतस्तानि प्रधानवाक्यगतावश्यकत्वानुरोधेन यथाशक्त्युपसं- हर्तव्यानि । नन्वेवं हीनाङ्गादपि प्रधानात्फलसिद्धेरभ्युपगमात्समर्थोऽप्यङ्गानि परित्य- क्ष्यतीति । मैवम् । शक्तस्य कामतोऽङ्गे त्यज्यमाने वैगुण्यं स्यादेव । अङ्गोपदेशं निमित्तं वा वाक्यानुरोधेन यावन्त्यङ्गानि कर्तुं शक्नोति तावद्भिरुपेतं प्रधानमेनः क्षापयतीति