कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 52, कुल 114 में से
संदर्भ में पढ़ें. ४६ कात्यायनश्रौतसूत्रम् । ऽन्यश्च, तेषां स्वरूपेणवाधिकारिविशेषणत्वममावास्यासम्बन्धी द्रव्यवान्विद्या- वानग्निमानिति । एतदुक्तं भवति । अङ्गं हि विधिवलादुपादीयते, निमित्तानुरोधा- त्त्यज्यते । उभयथानुग्रहार्थं शक्तं प्रत्युपादीयते, अशक्तं प्रात त्यज्यत इति नान्यागतिरस्ति । तत्रोभयानुग्रहो युक्तो यदि सम्भवति, सम्भवश्चोपादेयेष्वङ्गेषु, यथाशक्ति व्रीहीन्सम्पादयेत्, यथाशक्त्यवहन्द्यात्, इति । आहवनीयादिस्वरूपं तु नानेन विधिनोपादीयते । तस्मादग्निमान्विद्यावान्द्रव्यवाञ्जीवँश्च यजेतेत्येवमा- श्रियते । अतो विद्याग्निकालादिपरित्यागेनान्येषामङ्गानां यथाशक्त्यनुष्ठानं सिद्धम् । तथा चोक्तं तन्त्ररत्ने-तानि प्रयोगविधिना कर्तृरूपादेयत्वेनाङ्गानि चोद्यन्ते तेषा- मेव