कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 53, कुल 114 में से
संदर्भ में पढ़ेंदेवयाज्ञिकभाष्यसमेतम् । ४७
इत्यन्तेन ग्रन्थेन । तथा “तदेव यादृक् कीदृक् च हातव्यम् ” इति शाखान्तराच्च । तस्माद्विगुणेऽपि नित्ये प्रत्यवायपरिहाररूपं फलं भवत्येव । अत एवोक्तं कर्का- चार्येण-उपात्तदुरितक्षयो वोत्पत्स्यमानदुरितप्रतिबन्धो वा भवत्येव ॥ २० ॥ अथ काम्ये कर्मणि चिन्त्यते-काम्ये विगुणे फलानिष्पत्तिर्भवत्येव, यतस्तत्राप्यङ्गानि प्रधानानि च भिन्नानि । अश्वमेधे च काम्ये प्रायश्चित्तविधानम- प्यस्त्यश्वं प्रकृत्य “अथातः प्रायश्चित्तीनां यद्यश्वो व उ वाऽस्कन्देद्वायव्यं पयोन्नु- निर्वपेदथ यदि क्षामो१ विन्देत् ” इत्यादि । तथा पञ्चशारदीय उत्सृष्टानपशून् प्रकृत्य ताण्ड्ये प्रायश्चित्तविधानं दृश्यते “अपो नप्तृत्रियोऽप्सु मृतः” इत्यादिकम् । यदि च विगुणादपि काम्यात्फलं न स्यात्प्रायश्चित्तविधानं व्यर्थमेव स्यात् । तथाच दृष्टम्, विगुणमपि काम्यं फलोत्पादकं वेदे दृष्टम् । कारीरीमिष्टिं प्रकृत्य श्रूयते “यदि वर्षेत्तावत्येव जुहुयात् ” इति । अत्र समाप्तायामेव कारीर्यां तत्फलं वृष्टिरूपं वेदे दृष्टम् । अतो विगुणेऽपि काम्ये फलं सिद्ध्यतीति पूर्वपक्षिते सिद्धान्तमाह-
( काम्यं कर्म सगुणमेवानुष्ठेयम् )
न श्रुतिलक्षणत्वात् ॥ १ । २ । २१ ॥
यदुक्तं विगुणेऽपि काम्ये फलं सिद्ध्यतीति, तन्न; कुतः श्रुतिलक्षणा काम्यस्य । यतः काम्यं सगुणमेव सर्वाङ्गोपेतमेव श्रुत्या लक्षितं साधनत्वेन विहि- तम् । तत्रालोपे काम्यमानफलोत्पत्तेः । तत्र प्रधानस्य त्यागे यथाश्रुतं फलं नास्ति । एवमङ्गत्यागेऽपि । फलसाधनत्वं हि शास्त्रैकसमधिगम्यम् । ततो यदङ्गं प्रधानं वा यावच्छब्दोपात्तम् । तस्य लोपे साधनत्वं नास्ति । अता यदा सर्वा- ङ्गोपेतं सम्पादयितुं शक्नोति, तदैव प्रवर्तते, नतु यथाशक्ति । न हि तत्राङ्गत्यागे प्रमाणमस्ति । प्रधानवाक्यसन्त्यागेऽप्यविरोधात् । न हि तस्यावश्यकत्वं केनचि- दुक्तम् । यतस्तदावश्यकत्वं न लभ्यते । कामश्रुतिस्तु समर्थेऽपि वर्तमाना श्रुत्यर्थतां न जहातीति नाङ्गत्यागे प्रभवति । निमित्तश्रुतिस्तु निमित्ते सत्यक्रियमाणेऽपी- त्येतदतिवैषम्यम् । अतो निमित्ते सति नित्यस्यावश्यकर्तव्यत्वबलात्सर्वदा सर्वाङ्गोपेतस्य केनापि कर्तुमशक्यत्वाद्यथाशक्नुयात्तथाकुर्यादित्येवं कल्प्यते ।
१ क्षामो नासारोगः ।