कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 56, कुल 114 में से
संदर्भ में पढ़ें५० कात्यायनश्रौतसूत्रम् । निगदाः प्रैषाः। परसम्बोधनार्थाः प्रोक्षणीरासादयाग्नीद् “अग्नीन् विहर” इत्येवमादयः ॥ १ ॥ ननु निगदा अपि यजूंष्येव ततः किमर्थं पृथगुक्ताः ? उच्यते, ‘उपांशु यजुषा’ ‘उच्चैर्निगदेन’ इति धर्मभेदेन यजुःष्वन्त- र्भावशङ्कया पृथग्वचनम् । वस्तुतस्तु निगदानां यजुष्ट्वमेव । परसम्बोधनार्थत्वात्तु ‘उच्चैर्निगदेन’ इति धर्मभेदः । न च धर्मभेदाद्भेदः, ऋक्सामयोरपि क्वचिदु- पांशुप्रयोगविधानात् । अतस्त्रैविध्यमेव मन्त्राणाम् । तथा चोक्तम्- “अहे बुध्निय मन्त्रं मे गोपाय । यमृषयस्त्रयीविदो विदुः । ऋचः सामानि यजूंषि ” इति । त्रीन् वेदान् विन्दन्तीति त्रिविदः, त्रिविदां सम्बन्धिनोऽध्येतारस्त्रैविदाः, ते च यं मन्त्रभागमृगादिरूपेण त्रिविधमाहुस्तं गोपायेति योजना । ऋग्यजुःसामात्मको मन्त्रभेदोऽभिहितः । तदवान्तरभेदाकाङ्क्षायामृचां च साम्नां चाध्येतृप्रसिद्धचैव भेदे सिद्धे लक्षणं न क्रियते । यजुषां तु संश्लिष्टपठित्वाल्लक्षणं विना भेदो न ज्ञायत इत्यत आह— ( यजुषां लक्षणम् ) तेषां वाक्यं निराकाङ्क्षम् ॥१।३।२॥ तेषामिति तच्छब्देन यजुषां निर्देशः, ऋचां साम्नां च भेदे लक्षणापेक्षा- भावात् । ननु यजुषामपि भिन्नप्रतीकविनियोगाद् भेदः सेत्स्यति । सत्यम् । न ता- वत्सर्वेषां ब्राह्मणेन विनियोगोऽस्ति । न च “परादिना पूर्वान्तः” ( १।३।९) इत्येतल्लक्षणं वेदवचनं न्यायेन तु सूत्रकृतेदमुक्तमिति, अतो लक्षणमुच्यते । तेषां यजुषां संश्लिष्टपठितानां मध्ये यावत्पदवृन्दं निराकाङ्क्षं पूर्वापरपठित