भारतकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 64, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 64

५८ कात्यायनश्रौतसूत्रम् । कौशं बर्हिः ॥ १ । ३ । १२ ॥ बर्हिः कौशम् । कुशा दर्भाः तस्येदं कौशम् । कुशमात्रमेव बर्हिःशब्दे- नोच्यते न संस्कारः । कुतः ? अन्वयव्यतिरेकाभ्यां जातिवाचित्वाद्वर्हिःशब्दस्य । यत्र यत्र बर्हिःशब्दप्रयोगस्तत्र तत्र जातिरित्यस्या व्याप्तेर्लोके वेदे च नास्ति व्यभिचारः । संस्कारव्याप्तेस्तु लौकिकप्रयोगे व्यभिचारो दृश्यते, क्वचिद्देशविशेषे लौकिकव्यवहारे जातिमात्रमुपजीव्य विना संस्कारं बर्हिःशब्दः प्रयुज्यते ' बर्हि- रादाय गावो गताः' इति । तस्माज्जातिवाची बर्हिःशब्दः । असंस्कृतं कुशमात्रं बर्हिःशब्देनोच्यत इत्यर्थः । प्रयोजनम् - " बर्हींषि प्राञ्च्युदञ्चि च प्रास्यति " ( ६-२-१८ ) इत्यादौ संस्कारा न कर्तव्याः । स्मृतौ - कुशाभावे तु काशाः स्युः काशाः कुशसमाः स्मृताः । काशाभावे गृहीतव्या अन्ये दर्भा यथोचिताः ॥ दर्भाभावे स्वर्णरूप्यताम्रैः कर्मक्रियाः सदा । कुशाकाशशरा दूर्वा यवगोधूमबाल्वजाः ॥ सुवर्णं रजतं ताम्रं दश दर्भाः प्रकीर्त्तिताः । स्नाने होमे तथा दाने स्वाध्याये पितृतर्पणे ॥ सपवित्रौ सदर्भौ वा करौ कुर्वीत नान्यथा । सर्वेषां वा भवेद् द्वाभ्यां पवित्रं ग्रथितं न वा ॥ सपवित्रः सदर्भो वा कर्माङ्गाचमनं चरेत् । नोच्छिष्टं तत्सदर्भं च दर्भोच्छिष्टं तु वर्जयेत् ॥ इति ॥ १२ ॥ अर्थात्परिमाणम् ॥ १ । ३ । १३ ॥ अग्न्यागारादौ वसोर्धारा होमे च स्रुचः स्रुवस्य च अर्थात्परिमाणं भवति । यावता परिमाणेनार्थः प्रयोजनं सिद्ध्यति तावत्परिमाणं भवतीत्यर्थः परिमाणा- न्तरस्यायुक्तत्वात् । प्रयोगाद्बहिरेव शुष्केष्टिवत् " वाजश्चमे " इत्यत आरभ्य “ षट् स्वाहा ” ( १८-१ तः २९ ) इत्येतत्पर्यन्तं पठित्वा कस्मिंश्चित्पात्रे सन्ततं घृतं स्रुक्प्रणालिकया निनीय तस्याज्यस्य तोलनाद्युपायेन परिमाणं निश्चि- त्य तावदाज्यं यावत्परिमाणायां स्रुचि याति तावत्परिमाणां तां स्रुचं कुर्यात् ।