भारतकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 63, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 63

देवयाज्ञिकभाष्यसमेतम् । ५७ नन्वेतन्न वक्तव्यम्, वाक्यलक्षणेनव मन्त्रान्तस्य सुगमत्वात् । सत्यम्, कचिद्वाक्यसमूहस्यैकमन्त्रत्वसिद्ध्यर्थं पुनरुच्यत इत्यदोषः । तद्यथा—"विश्वेषां देवानां भागधेयीस्थ " इति समाप्तेऽपि वाक्ये " अमूर्या उपसूर्ये " (६-२४) इत्यादि प्रयुज्यते । यथा वा अष्टगृहीतं जुहोति सन्तममुद्गृह्णन् " युञ्जानः " ( १६-२, ७) इति । अत्राष्टानामेकमन्त्रत्वम् । तथा " देवस्यत्वा " (३-२, ८) इत्यभ्रिमादाय इत्यत्र त्रयाणां मन्त्रत्वम् । चित्यं गच्छति " पश्चदिशः " ( १८-३, १८ ) इत्यादौ च ॥ ९ ॥ उपाꣳशु प्रयोगः श्रुतेः ॥ १ । ३ । १० ॥ तेषां यजुषां यजुर्वेदमन्त्राणां कर्मसु उपांशु प्रयोगो भवति । कुतः? श्रुतेः “ उच्चैर्ऋचा क्रियत उच्चैः साम्ना उपांशु यजुषा" इति शाखान्तरे श्रवणात् । स्वशाखायामपि " स उपाꣳशु यजुर्भिश्श्चरति " ( ४-६-७-१८) इत्यादि- श्रुतेश्च । अत्र तेभ्यस्त्रयो वेदा अजायन्त इति वेदान्प्रक्रम्य मध्ये "उच्चैर्ऋचा क्रियत " इत्यादीनि वाक्यानि पठित्वा पुनरपि वेदेनैवोपसंहारोऽस्ति । तेनात्र ऋगादयः शब्दा वेदोपलक्षकाः । तेन ऋचा ऋग्वेदेन विहितं साम्ना सामवेदेन विहितं चोच्चैः, यजुषा यजुर्वेदविहितं चोपांशु इति । अस्य सूत्रस्येष्टिपशुसोमव्यतिरिक्तं कर्माग्निहोत्रादिकं विषयः । एतेषु विशेषस्य वक्ष्यमाणत्वात् ॥ १० ॥ न सम्प्रैषाः ॥ १ । ३ । ११ ॥ सम्प्रैषा निगदाः 'प्रोक्षणीरासादय' 'अग्नीदग्नीन्विहर' 'यजमान वाचं यच्छ' (२-६-३४, ९-७-५, २-३-२) इत्येवमादयः, याजुर्वेदिका अपि सम्प्रैषा उपांशु न प्रयोज्याः । अन्यबोधनार्था हि ते । न चोपांशूच्चरितैरे- भिरन्यस्य बोधनं सम्भवति । तस्मात्त उच्चैरेव प्रयोज्याः ॥ ११ ॥ शाखान्तरे दर्शपूर्णमासयोः श्रूयते 'बर्हिर्लुनाति' इति । तत्रेदं चिन्त्यते किं बर्हिःशब्दः संस्कारनिमित्त उत जातिनिमित्त इति । तत्र बर्हिःशब्दस्य शास्त्रे सर्वत्र संस्कृतेष्वेव तृणेषु प्रयोगात्, यूपाह्वनीयादिवत् संस्कारवाची बर्हिःशब्द इति प्राप्त आह—

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक) · पृष्ठ 63, कुल 114 में से · BharatKosha