भारतकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 69, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 69

देवयाज्ञिकभाष्यसमेतम् । ६३

मनुः "वेदं करोति वत्ससृजं प्रसव्यमावेष्ट्य तूलैर्दक्षिणोत्तरतूलैषु शुल्वं प्रतिनि- धाय त्रिरावेष्ट्य सन्नह्यत्युत्तरमुत्तरं प्रादेशमात्रे शुल्वात्परिवास्योत्करे मूलानि गमयति तूलानि निदधाति वेदं कृत्वा वेदिं करोति” इति । तैत्तिरीये-वेदं करोति वत्सजानुं पशुकामस्य मूतकार्यमन्नाद्यकामस्य त्रिवृतं तेजस्कामस्योर्ध्वाग्रं स्वर्गकामस्य” इति । लौगाक्षिः--“वेदं करोति दर्भमुष्टिं प्रसव्यमावेष्ट्योपभुज्याग्राणाग् शुल्वं कृत्वा त्रिः परिवृत्य गुणेषु शुल्वान्तमवकृष्यायस्य शुल्वात्प्रादेशे छित्वाग्राणीध्मे निधायोत्करे मूलानि ततो वेदिकरणम्” इति । आपस्तम्बश्च--“दर्भाणां वेदं करोति वत्ससृजं पशुकामस्य मूतकार्यम- न्नाद्यकामस्य त्रिवृच्छिरसं ब्रह्मवर्चसकामस्य शुल्वात्प्रादेशे परिवास्य

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक) · पृष्ठ 69, कुल 114 में से · BharatKosha