कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 68, कुल 114 में से
संदर्भ में पढ़ें६२ कात्यायनश्रौतसूत्रम् । अपरिमितं प्रणयनीयं त्रियूनम् ॥ १। ३ । २१ ॥ प्रणयनस्यार्थे प्रणयनीयः, तं प्रणयनीयमग्निप्रणयनार्थमिध्ममपरिमितका- ष्ठकं त्रियूनं तिसृभिः संहननरज्जुभिर्बद्धं कुर्यात् । त्रीणि यूनानि बन्धनानि यस्य स त्रियूनः तं त्रियूनमिति । अपरिमितत्वं च प्रागुक्तेध्मकाष्ठसङ्ख्यापेक्षयातिश- येनाधिकसङ्ख्यकाष्ठकत्वम् । तेन चतुर्विंशतिसामिधेनीको य इष्टकापशुस्तत्र सप्तविंशतिः काष्ठानि भवन्ति । ततश्च प्रणयनीये ततोऽप्यधिकानि अष्टाविंशति- प्रभृतीनि इच्छासङ्ख्यानि काष्ठानि भवन्ति ॥ २१ ॥ ( वेदबन्धनकालः ) निरूप्याज्यं वेदोऽसीति यजमानो वेदं करोति ॥१।३।२२॥ यजमान आज्यं निरूप्य प्रथमं वक्ष्यमाणप्रकारेणाज्यनिर्वापमाज्यस्थाल्यां कृत्वा “वेदोऽसि” ( २-२१ ) इत्यनेन मन्त्रेण वेदं करोति । अस्य मन्त्र- स्यान्यत्र ऊहो भवति । “तेनावभ्यां वेदो भूयाः” इति द्वियजमानके, “तेना- स्मभ्यं वेदो भूयाः” इति बहुयजमानके “देवंपितृभ्यो वेदो भव” इति पित्र्या- म् ॥ २२ ॥ कीदृशं तमित्यपेक्षायामाह-- कुशमुष्टिस्सव्यावृत्तं वत्सजानुं त्रिवृतं मूतकार्यं वा पशु- ब्रह्मवर्चसान्नाद्यकामा यथासङ्ख्यम् ॥ १ । ३ । २३ ॥ पशुब्रह्मवर्चसान्नाद्यकामा यजमाना यथासङ्ख्यं यथोपदेशक्रमेण एव- माकारं वेदं कुर्युः । तत्र पशुकामः कुशमुष्टिं सव्यावृत्तं प्रदक्षिणावृत्तं वत्सजानुं वेदं करोति । अस्य निर्माणप्रकारः कठमैत्रसूत्रादिषु विलोकनीयः । ब्रह्मवर्चसकामः कुशमुष्टिं त्रिवृतं करोति, अन्नाद्यकामो मूतकार्यम्, इति यथासङ्ख्यशब्दार्थः । वत्सजानुरिति वत्सजानुसदृशः । त्रिवृत् त्रिगुणः । मौञ्जं त्रिवृद्द्रव्यम् मुञ्जरज्जु- वत्त्रिहतो मूर्ध्निबद्धाः “त्रिवृतं परिव्ययती” त्यादौ (६-३-१६) तथैव दर्शनात् । “मेखलायां वेणिं त्रिवृतमि”ति (७-३-२६) पृथङ्निर्देशात्त्रिवृच्छब्देन वेण्या- कारता यत्कैश्चिदुक्ता तत्केनाभिप्रायेणेति त एव विदुः । मूतो धान्यावापपात्रं तृणवर्त्यादिनिर्मितं तद्वत्क्रियत इत्यर्थः । तथा च