भारतकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 7, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 7

॥ श्रीकृष्णाय नमः ॥ ॥ ॐ १यज्ञपुरुषाय नमः ॥ कात्यायनश्रौतसूत्रम् । अग्निचित्सम्राट्स्थपतिमहायाज्ञिकश्रीदेवविरचित- भाष्योपबृंहितम् ।२ अग्निहोत्रं तथा दर्शः पूर्णमासः पशुस्तथा । चातुर्मास्यानि सोमश्च क्रमात्पञ्चविधो हरिः ॥१॥ ( श्रीमद्भाष्यकाराः ) ब्रह्माणमथ विष्णुं च शिवं गणपतिं तथा । अम्बिकां शारदां चापि वन्दे विघ्नोपशान्तये ॥१॥ कात्यायनं नमस्कृत्य गुरून् श्रीश्रीपतींस्तथा । पितरौ भाष्यकर्तॄंश्च पितृभृत्यादिसंज्ञकान् ॥२॥ कात्यायनप्रणीतेऽस्मिन्सूत्रे यज्ञप्रकाशके । प्रजापतेस्तनूजोऽहङ्कुर्वे व्याख्यामिमां स्फुटाम् ॥३॥ जयन्ति ते गुरोर्वन्द्याः श्रीपतेः पादपांसवः । येषां प्रसादादज्ञोऽपि चापलं कर्तुमुद्यतः ॥४॥ आलोच्य सूत्रभाष्यादि क्रियते सङ्ग्रहो यतः । स्वकल्पितत्वशङ्कात्र न कार्या विबुधैरतः ॥५॥ ( अधिकारनिरूपणप्रतिज्ञा ) इह “ पुण्यो वै पुण्येन कर्मणा भवति” “तमेतं वेदानुवचनेन विवि- दिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेन” इति, “अग्निहोत्रं जुहुयात्स्वर्ग- कामः” इत्यादिभिर्वाक्यैः कर्मणां स्वर्गापवर्गादिश्रेयःसाधनत्वं प्रतीयते । तानि होत्रं जुहुयादित्यग्निहोत्रादिकर्माणि वेदवाक्यैकवेद्यानि, वेदवाक्यानि १ “यज्ञो वै विष्णुः ” इतिश्रुतेः । २ “सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः”इतिलक्षणलक्षितम् । वाक्येऽतिव्याप्तिवारणाय सूत्रानुसा- रिभिरिति । वृत्तावतिव्याप्तिवारणाय स्वपदानीति ।