कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 8, कुल 114 में से
संदर्भ में पढ़ें२ कात्यायनश्रौतसूत्रम् । चानेकशाखावस्थिततया, स्वतश्च प्रतिवाक्यं नानाविधपरस्परविरुद्धार्थस्फुरणेन दुर्बोधार्थानि, बहुभिरर्थवादवाक्यैर्मिश्रितानि च । तथाहि— “ अग्निहोत्रं जुहुयात्स्वर्गकामः” इत्यत्र किं स्वर्गो होमाय उत होमः स्वर्गाय ? तथा अग्नि- होत्रशब्दो गुणविधानार्थो नामधेयं वेति ? तथा “स वै संवत्सरं दीक्षाभिरेति” इत्यादौ क्वचित्संवत्सरशब्दस्य मुख्यार्थत्वम् । सहस्रसंवत्सरादौ तस्यैव गुण- त्वम् । अर्थवादमिश्रपाठाद्विध्यर्थवादसन्देहोऽपि भवति, किमयं विधिरुतार्थवाद इति । यद्यपि जैमिनिशबरस्वामिकुमारिलप्रभृतिभिर्मीमांसायां तानि वाक्या- नि सन्देहनिरासपूर्वकं यथार्थव्याख्यातानि सन्ति । अधीतशास्त्राणां च तद्- र्थाऽवगमोऽपि सुकर एव । तथापि तेषां नानाशाखाव्यवस्थितत्वेनेदानींतनैः सर्वैः पुरुषैरध्येतुं ज्ञातुं चाशक्यत्वादधीतानां कर्मणां ज्ञानं दुःखमिदानीं तन्मा- भूदिति मत्वा, परमकारुणिको भगवान् कात्यायनाचार्यो नानाशाखागतविधि- वाक्यसङ्ग्रहरूपं कल्पसूत्रं प्रणीतवान् । तत्र पूर्वमधिकारादिकस्य सर्वकर्म- साधारणस्य निरूपणानन्तरं, विशेषस्य दर्शपूर्णमासादेर्निरूपणं युक्तम् । अ- न्यथा, प्रतिविशेषं, अधिकारादिनिरूपणे ग्रन्थगौरवं स्यात् । तन्माभूदिति कृत्वा, प्रथमेऽध्याये यावत्किञ्चित्सर्वकर्मसाधारणं, तदुपदिशति, तत्रैतदादिमं सूत्रम्— अथातोऽधिकारः ॥ १ । १ । १ ॥ वक्ष्यत इति सूत्रशेषः । तत्रायमथशब्दो मङ्गलार्थ आनन्तर्यार्थश्च । “ मङ्गला- नन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ” इत्यमरोक्तेः । तत्र मङ्गलमुच्चारणमात्रेण भवति दधिदर्शनादिवदिति । आनन्तर्यन्तु अभिधावृत्त्या वक्ति । तेनान्यायश्चानेकका- र्यत्वमिति दोषानवकाशः। अपेक्षितं च प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्तये प्रचयगमनाय मङ्गलम् । आनन्तर्यं च न, यतः, कुतश्चित्, आनन्तर्यायोगात्, किन्तु वेदाध्ययनापेक्षया, तस्यात्रापेक्षितत्वात् । अतः शब्दोऽत्र हेत्वर्थस्यैव वेदाध्ययन- १ “ स्वल्पाक्षरमसन्दिग्धं सारवद्विश्वतो मुखम् । अस्तोभमनवद्यं च, सूत्रं सूत्रविदो विदुः” इति, “ लघूनि सूचिताथानि स्वल्पाक्षरपदानि च सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः” इति च तल्लक्षणम् । २ व्याख्यास्यत इति सूत्रशेष इति कर्काचार्याः ३ “ओङ्कारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ” इत्युक्तेः । मङ्गलमुच्चारण मात्रेण मृदङ्गध्वनिवत् । ४ अतः शब्दस्तदेव वेदाध्ययनं हेतुत्वेन प्रदर्शयतीति कर्कः ।