कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 9, कुल 114 में से
संदर्भ में पढ़ेंHere is the complete and accurate Devanagari text transcribed line by line from the image:
देवयाज्ञिकभाष्यसमेतम् । ३ स्य वेदार्थविचारं प्रति हेतुतामाह । अधिक्रियत इत्यधिकारः । स्वाम्यं फलभो- क्तृतया कर्मणि ऐश्वर्यमित्यर्थः । तेनायमर्थः-अथ वेदाध्ययनानन्तरम्, यतोऽ- धीतो वेदः, अतो हेतोरधिकारो वक्ष्यते अभिधास्यते, विचारपूर्वकं निरूपयिष्यत इत्यर्थः। अधिकारग्रहणं सर्वेषां वेदवाक्यप्रतिपाद्यानामर्थानामुपलक्षणार्थम् । अ- धिकारादिकः सर्वोऽपि वेदवाक्यार्थोऽभिधास्यत इत्यर्थः । प्रतिज्ञासूत्रमेतत् । प्रतिज्ञायत इदम्, अधिकारो वक्ष्यत इति । प्रतिज्ञाकरणं शिष्यबुद्धेरव्याकुल- तार्थम् । अन्यथा हि किमिदमुच्यत इति बुद्धेर्व्याकुलता भवति । केचित्त्वेवं^२ व्याख्याक्षते अयमध्यायः सूत्रकृता नित्यकाम्यप्रायश्चित्तोपदेशा- नन्तरमुपनिबद्धः । तेनाथशब्दः सर्वकर्मोपनिबन्धनानन्तर्ये । अतःशब्दस्तु हेत्वर्थ एव । यतो दर्शपूर्णमासादीनि प्रवर्ग्यान्तानि कर्माण्युक्तानि, अतस्तेष्वेव कर्म- स्वधिकार उच्यते । एषु पूर्वोक्तेषु कर्मसु अस्याधिकारः, अस्य स्वामित्वं, अस्य कर्मजन्यफलभोक्तृत्वमिति वक्ष्यत इत्यर्थः । यत उक्तेष्वेव कर्मसु एवमपे- क्षाजायते, एतेष्वग्निहोत्रादिकर्मसु कस्याधिकार इति । अत एवं प्रतिज्ञा । अथ सर्वकर्मोपनिबन्धनानन्तरं, यतः कर्माण्युक्तानि, अतस्तेष्वधिकारो विधी- यत इति । अधिकारो वक्ष्यत इति प्रतिज्ञातम् । कर्मजन्यफलभोक्तृत्वं- चाधिकार इत्युक्तम् ॥१॥ ( स्वर्गपदार्थविवेचनम् ) तच्च कर्मणां फलवत्वे सिद्धे सति सिध्यति, नान्यथा । तेन तत्साध- नार्थमिदं सूत्रं प्रारभ्यते । तत्रैवं सन्देहः । किमफलवन्तिकर्माण, उत फलवन्तीति । अफलवन्तीति ब्रूमः । कुतः? कर्मसमनन्तरं प्रत्यक्षेण फलस्यानु- पलब्धेः । ननु माभूत्प्रत्यक्षं कर्मणां फलवत्वे प्रमाणम्, आगमस्तुभविष्यति । कश्चासौ " अग्निहोत्रं जुहुयात्स्वर्गकामः " " दर्शपूर्णमासाभ्यां स्वर्गकामोय- जेत "इत्यादि । सत्यं भविष्यति । तथापि, अत्रैतद्विचार्हम । अत्राग्निहो- त्रादिषु किं पुरुषस्याधिकारः, स्वाम्यं, कर्मजन्यफलभोक्तृत्वमस्तिनवेति ? तद- र्थमिदं विचार्यते । यजेत जुहुयादित्यत्रयेयं प्रत्ययोपात्ता भावना तस्यां किं धात्वर्थ एव भावः प्रधानं यागं कुर्यात्, होमं कुर्यादित्येवम्, स्वर्गादि तु तत्सा- धनतया गुणभूतम्, स्वर्गेण यागं च होमं च कुर्यादिति । उत काम्यमानत्वेनो- १ कर्तव्यर्थनिर्देशः प्रतिज्ञा । २ कर्काचार्यात्पूर्व्वतनाः ।