भारतकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 10, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 10

पात्तः स्वर्गादिरेव भाव्यस्तत्र च साधनं धात्वर्थ इति । यागेन होमेन स्वर्गं कुर्यादिति । ततोऽप्येतद्विचार्यते । योऽत्र क्रियायाः स्वर्गकामादेश्च पुरुषस्य क्रियाकर्तृरूपः सम्बन्धः, तत्र किं क्रिया प्रधानभूता, पुरुषो गुणभूतः अथवा पुरुषः प्रधानभूतः, क्रियागुणभूतेति ? यदि गुणभूतः पुरुष- स्तस्य गुणभावं क्रियाक्षेपादेव सिद्धमनूद्य स्वर्गादिद्रव्यं साधनेत्वेन विधीयते । कामश्रुतिश्च साधनकामनानुवादः । अयमर्थः—स्वर्गसाधनत्वेन कामयमानो यजेत स्वर्गेण यागं कुर्यादित्यर्थः। अथवा, “ समुद्रं मनसा ध्यायन् रथन्तरं गायेत् ” इतिवत्स्वर्गकामनैव गुण- भूतकर्तृविशेषणे सती यागाङ्गत्वेन विधीयत इति द्वेधा पूर्वः पक्षः । अथवा, प्रधानभूतः पुरुषः, ततस्तस्यात्मार्था स्वर्गादिगोचरा प्रवृत्तिः प्रत्ययेन विधीयते । साधनतया च याग उपदिश्यते । स्वर्गकामो यागेन कुर्यादात्मार्थं प्रवृत्तिमिति । स्वर्गकामस्य चात्मार्था प्रवृत्तिः स्वर्गविषयैवेति । स्वर्गभावनैवानेन प्रकारेणो- पदिष्टा भवति । तदयमर्थः- यः स्वर्गं प्राप्तुमिच्छति स यागेन कुर्यादभिल- षितम्, स्वर्गश्च तस्याभिलषित इति, स्वर्गं भावयेद्यागेनेत्युक्तं भवति । तथा स्वर्गशब्दः स्रक्चन्दनवनितादिद्रव्यवाची, सुखवाची वेति ? यदि द्रव्यवाची, ततः कर्मप्रधानम्, द्रव्यं गुणभूतम् । अथ सुखवाची, तदा यागो गुणभूतः, स्वर्गः प्रधानमिति । तत्रपूर्वः पक्षः । अत्र यजेत जुहुयादित्यनेनाख्यातेन भावनाऽभिधीयते । तस्यां च धात्वर्थ एव मान्यः, एकपदोपात्तत्वात् । स्वर्गस्तु पदान्तरोपात्तत्वा- द्वाक्येन भाव्यतया ज्ञातव्यः ॥ * वाक्यं च श्रुतेर्दुर्बलम् । स्वर्गस्य भाव्यत्वाभावे सति गुणत्वमङ्गीकार्यम् । स्वर्गशब्दश्चात्र सुखसाधनचन्दनादिद्रव्यवाची । “ चन्दनं स्वर्गो, द्व्यष्टवर्षाः स्त्रियः स्वर्गः, कौशिकानि सूक्ष्माणि वासांसि


  • “ श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्” इतितार्तीयमधिकरणमत्रानुसन्धेयम् । निरपेक्ष रवः श्रुतिः । सामर्थ्यं लिङ्गम् ‘ समर्थ्यं सर्वभावानां लिङ्गमित्यभिधीयते ’ इति । समभिव्याहारो वाक्यम्, समभिव्याहारो नाम साध्यत्वादिवाचकद्वितीयाद्यभावेऽपि वस्तुतः शेषशेषिणोः सहोच्चारणम् । देशसामान्यं स्थानम् । समाख्या यौगिकः शब्दः । एतेषु पूर्वं पूर्वं प्रबलम् । धात्वर्थस्यैव भाव्यत्वं पदश्रुत्याप्रतीयते । स्वर्गादिः खलु वाक्येन श्रुतेर्वाक्यं तु दुर्बलम् । भूतं च स्वर्गपश्वादि द्रव्यं भाव्याय कर्मणे । उपदेश्यं न भूताय भव्यकर्मोपदेशनम् ॥