भारतकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 11, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 11

देवयाज्ञिकभाष्यसमेतम् । ५ स्वर्गः” इति लोके व्यवहारदर्शनात् । सर्वत्र शब्दार्थे तस्यैव प्रामाण्यात् । तच्च कामापयितुं योग्यम् । तेन विना यागानिष्पत्तेः । द्रव्यं च भूतं सिद्धं कर्म भव्यं साध्यम् । भूतस्य च भव्यार्थता युक्ता दृष्टार्थत्वात् । न तु भव्यस्य भूतार्थता । दृष्टोपकाराभावात् । तस्मादपि यागहोमादिधात्वर्थ एव भाव्यः । अथवा स्वर्गा- दिकामनैव यागाङ्गमित्यस्मिन्नपि पक्षे तथैव । न च यागेन किमपि फलं साध्यत इत्युक्तम् । तत्स्मादफलवन्त्येव कर्माणि, निःफलेषु च यागेषु लाभाभावाद्बहुवित्तव्ययाऽऽयाससाध्यत्वाच्च न कश्चित्प्रवर्तेतेति, न कस्यापि कर्मजन्यफलभोक्तृत्वापरपर्यायोऽधिकारः सिध्य- तीति प्राप्त आह— ( कर्मणां १फलवत्त्वम् ) फलयुक्तानि कर्माणि । ॥ १ । १ । १२ ॥ फलं पुरुषाभीष्टं स्वर्गधनपुत्रादिकम्, कर्माण्यग्निहोत्रादीनि, फलयुक्तानि फलैः सम्बद्धानि फलवन्ति फलस्य साधकानि भवन्तीत्यर्थः । कथम् ? इत्थम्, यजेत जुहुयादित्यत्र प्रत्ययस्य केवलमाख्यातरूपत्वमेवेति न मन्तव्यम् । किन्तु लिङ्प्रत्ययत्वेन विधिरूपत्वमप्यस्ति तत्राख्यातत्वाकारेण २भावनामाचष्टे, विधि- त्वाकारेण पुरुषं प्रवर्तयति, पुरुषश्च स्वाभिमतफलमन्तरेण न प्रवर्तत इति तदपेक्षितं स्वर्गमेव भाव्यतया विधिरुपादत्ते । स्वर्गशब्दश्च सर्वोत्कृष्टे सुखे रूढः । तथाहि- ३“ यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । इच्छामात्रोपनीतं४ तत्सु- खं स्वर्गपदास्पदम् ”इति । द्रव्ये तु लाक्षणिकाः तस्मात्स्वर्गस्य भाव्यत्वं विधिश्रुत्यासिद्धम् । धात्वर्थस्य ✻ तु भाव्यत्वमेकेन पदेन प्रतीयमानमपि न प्रत्य- येनावगम्यते, किन्तु प्रकृत्या । तथा सति, स्वर्गभाव्यत्वं भावनायाः प्रत्यासन्नम् । एकेनैव विधिरूपेणाख्यातप्रत्ययेनावगमात् । कमियोगादपि स्वर्गस्यैव भाव्यत्वम् । यागहोमादि तु तत्साधनम् । तथाहि-कि स्वर्गकामो यागायोपदिश्यते, यथा लोहितोष्णीषाः “प्रचरन्ति” इति । यथा वा यागः स्वर्गकामाय, यथा मलिनः स्नायात्, बुभुक्षितोऽश्रीयादिति । तत्र यदि स्वर्गकामः कर्मण उपदिश्यते । उपदिष्टोपि न प्रवर्त्तते । को हि परार्थं प्रयासमातिष्ठेत । तथाच कर्मचोदनाऽ- १ 'द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः' इत्याद्यधिकरणमत्रानुसन्धेयम् । २ धात्वर्थात्फलमित्युक्तं भावनासन्निकर्षतः । विप्रकृष्टस्तु नामार्थस्तदर्थो न फलान्वयी । इत्युक्तैः । ३ तन्त्रवार्तिके । ४ अभिलाषोपनीतमित्यपि पाठः ।