कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 12, कुल 114 में से
संदर्भ में पढ़ें६ कात्यायनश्रौतसूत्रम् । नर्थिकैव भवति । अथ यागः स्वर्गकामार्थः । ततोऽसौ पुरुषस्योपकरोति । तं पुरुषः स्वार्थेन करोतीति । तथाच, कर्मचोदनार्थवतांभवति; तस्माद्यागः स्वर्ग- कामस्योपकारकः । स्वर्गकामस्यानेक उपकारः, पुत्रपश्वन्नाद्यादिलाभरूपः, स यदि तत्रान्नाद्यादीनामन्यतमं करोति तदा स्वर्गशब्दोऽविवक्षितार्थः पुरुषमात्र- वचनो भवति । तथाचाऽऽनर्थक्यमेव । अन्तरेणापि हि तद्वचनं पुरुषमात्रमा- ख्यातादेव गम्यते । तस्माद्यागात्स्वर्गो भवतीति निश्चीयते । अतश्च स्वर्गकामो यागेन कुर्यादिति वाक्यार्थः । अत्र स्वर्गं प्रार्थयमानस्यानुष्ठानमनूद्य यागस्तस्यो- पायत्वेन विधीयते । अतः स्वर्गादिकं यागादेः फलमिति सिद्धम् । फलवन्ति कर्माणीति च । अतः कर्मणां फलवत्त्वात् कर्मजन्यफलभोक्तृत्वापरपर्यायोऽधि- कारोपि पुरुषस्याग्निहोत्रादिकर्मसु सिध्यति ॥ २ ॥ ( अधिकारविचारः ) अधिकारो वक्ष्यत इति प्रतिज्ञातम् । स केषामित्यपेक्षायामाह- सर्वेषामविशेषात् ॥ १ । १ । ३ ॥ सर्वेषां कर्मानुष्ठानसमर्थानामसमर्थानां चान्धामूकपङ्गुबधिरदेवर्षिति- रश्चां कर्मस्वधिकारो भवति । कुतः ? अविशेषात् । फलार्थित्वस्य सर्वेषामविशि- ष्टत्वात् । फलं हि सर्वैरिष्यत एव । तत्राचेतनानां वृक्षादीनां कामनाभावदन- धिकारः । तिरश्चां तु भवति। तिर्यञ्चश्चोङ्गितास्तापेन तप्ताश्छायां व्रजन्ति। शीत- पीडिताश्चातपम् । ननु तिर्यञ्चः प्रत्यासन्नमेव जानन्ति न तु कालान्तरभावि- फलम् । वैदिकानि च कर्माणि कालान्तरफलान्येव । अतः कथं तिरश्चां तत्र प्रवृत्तिः? उच्यते, कालान्तरेऽपि फलं कामयमाना दृश्यन्ते । श्वानश्चतुर्दश्यामप- वसन्ति । श्येनाश्चाष्टम्यामिति । लिङ्गान्यपि वेदे सन्ति । “देवा ह वै सत्रमासत,” “ वनस्पतयः सत्रमासत ” “ गावो वा एतत्सत्रमासत ” इत्यादीनि । तानि. च देवानां सर्पाणां वनस्पतीनां गवां चाधिकारं दर्शयन्ति । नन्वेतेऽन्धादयो यथोक्तं कर्म कर्तुं न शक्ष्यन्तीति कथमधिकार एषाम् ? उच्यते, यजेतेत्यादिप्रधानवाक्येन सर्वाधिकारं कर्मावगतम् । तदनुसारिणी चाङ्गवाक्यानि न तत्सङ्कोचे समर्थानि, अतश्चक्षुष्मन्तं प्रत्याज्यावेक्षणविधिः, अचक्षुषस्तुतद्विध्यभावात्तद्रहितमेवफलसाधनम्, एवं बधिरस्य वाचनरहितम्, १ फलार्थत्वात्कर्मणः शास्त्रं सर्वाधिकारं स्यादित्यधिकरणमत्रानुसन्धेयम् ।