कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
६ कात्यायनश्रौतसूत्रम् । नर्थिकैव भवति । अथ यागः स्वर्गकामार्थः । ततोऽसौ पुरुषस्योपकरोति । तं पुरुषः स्वार्थेन करोतीति । तथाच, कर्मचोदनार्थवतांभवति; तस्माद्यागः स्वर्ग- कामस्योपकारकः । स्वर्गकामस्यानेक उपकारः, पुत्रपश्वन्नाद्यादिलाभरूपः, स यदि तत्रान्नाद्यादीनामन्यतमं करोति तदा स्वर्गशब्दोऽविवक्षितार्थः पुरुषमात्र- वचनो भवति । तथाचाऽऽनर्थक्यमेव । अन्तरेणापि हि तद्वचनं पुरुषमात्रमा- ख्यातादेव गम्यते । तस्माद्यागात्स्वर्गो भवतीति निश्चीयते । अतश्च स्वर्गकामो यागेन कुर्यादिति वाक्यार्थः । अत्र स्वर्गं प्रार्थयमानस्यानुष्ठानमनूद्य यागस्तस्यो- पायत्वेन विधीयते । अतः स्वर्गादिकं यागादेः फलमिति सिद्धम् । फलवन्ति कर्माणीति च । अतः कर्मणां फलवत्त्वात् कर्मजन्यफलभोक्तृत्वापरपर्यायोऽधि- कारोपि पुरुषस्याग्निहोत्रादिकर्मसु सिध्यति ॥ २ ॥ ( अधिकारविचारः ) अधिकारो वक्ष्यत इति प्रतिज्ञातम् । स केषामित्यपेक्षायामाह- सर्वेषामविशेषात् ॥ १ । १ । ३ ॥ सर्वेषां कर्मानुष्ठानसमर्थानामसमर्थानां चान्धामूकपङ्गुबधिरदेवर्षिति- रश्चां कर्मस्वधिकारो भवति । कुतः ? अविशेषात् । फलार्थित्वस्य सर्वेषामविशि- ष्टत्वात् । फलं हि सर्वैरिष्यत एव । तत्राचेतनानां वृक्षादीनां कामनाभावदन- धिकारः । तिरश्चां तु भवति। तिर्यञ्चश्चोङ्गितास्तापेन तप्ताश्छायां व्रजन्ति। शीत- पीडिताश्चातपम् । ननु तिर्यञ्चः प्रत्यासन्नमेव जानन्ति न तु कालान्तरभावि- फलम् । वैदिकानि च कर्माणि कालान्तरफलान्येव । अतः कथं तिरश्चां तत्र प्रवृत्तिः? उच्यते, कालान्तरेऽपि फलं कामयमाना दृश्यन्ते । श्वानश्चतुर्दश्यामप- वसन्ति । श्येनाश्चाष्टम्यामिति । लिङ्गान्यपि वेदे सन्ति । “देवा ह वै सत्रमासत,” “ वनस्पतयः सत्रमासत ” “ गावो वा एतत्सत्रमासत ” इत्यादीनि । तानि. च देवानां सर्पाणां वनस्पतीनां गवां चाधिकारं दर्शयन्ति । नन्वेतेऽन्धादयो यथोक्तं कर्म कर्तुं न शक्ष्यन्तीति कथमधिकार एषाम् ? उच्यते, यजेतेत्यादिप्रधानवाक्येन सर्वाधिकारं कर्मावगतम् । तदनुसारिणी चाङ्गवाक्यानि न तत्सङ्कोचे समर्थानि, अतश्चक्षुष्मन्तं प्रत्याज्यावेक्षणविधिः, अचक्षुषस्तुतद्विध्यभावात्तद्रहितमेवफलसाधनम्, एवं बधिरस्य वाचनरहितम्, १ फलार्थत्वात्कर्मणः शास्त्रं सर्वाधिकारं स्यादित्यधिकरणमत्रानुसन्धेयम् ।
मूकस्य मन्त्रोच्चारणरहितम्, पङ्गोश्च विष्णुक्रमणरहितमिति सर्वेषामर्थिनामशक्या- ङ्गरहितकर्मानुष्ठानात्सिद्धोऽधिकार इति पूर्वः पक्षः ॥ ३ ॥ सिद्धान्तमाह— मनुष्याणां वारम्भसामर्थ्यात् ॥ १ । १ । ४ ॥ वाशब्दः पक्षव्यावृत्तौ । न सर्वेषामधिकारः, किन्तु मनुष्याणामेव । कुतः ? आरम्भसामर्थ्यात् । मनुष्या एव हि यथाश्रुतं कर्मारब्धुं, कर्तुं च समर्था न देव- र्षितिर्यगादयः । तत्र देवानां देवतान्तराभावादनधिकारः । न ह्यात्मानमुद्दिश्य त्यागः सम्भवति । किञ्च, देवाश्च प्राप्तस्वर्गादिकामाः । न च तेषां किञ्चिदवास- व्यमस्ति, यदर्थं कर्माणि कुर्वते । ऋषीणां चार्षेयाभावादनधिकारः । न हि भृग्वादयो भृग्वादिसगोत्रा भवन्ति । तन्त्ररत्ने तु विशेषः । अनादिर्हि कालोऽस्माकं मीमांसकानाम् । तेन भृगोरपि पूर्वपूर्वभृग्वन्तरसम्भवात्ततः पूर्वमप्येवमेवेति सम्भवत्येव भृगोर्भार्गव- त्वमित्यस्त्येव ऋषीणामप्यधिकारः । तथा, येषां शब्द एव देवता तेषामिद्यु- क्तम्, यद्देवानां देवतान्तराभावादनधिकार इति । शक्यते हीन्द्रेणापीन्द्रशब्दो- च्चारणेन हविस्त्यक्तुम् । तस्माद्देवाना मप्यधिकार इति । नच तिरश्चाङ्गवादीना- मधिकारः । प्रधानमात्रेऽपि सामर्थ्यात् । आसन्नचेतनत्वाच्च १ । ते ह्यासन्नमेव चेतयन्ते न पारलौकिकं फलमिति । ननूक्तं शुनश्चतुर्दश्यामुपवासदर्शनात्, श्येनस्य त्वष्टम्यामुपवासदर्शनाच्च तेऽपि पारलौकिकं जानन्तीति । तत्कथमव- गम्यत एते धर्मार्थमुपवसन्तीति । ये हि वेदस्मृतिपुराणादिकं पठन्ति त एव जानन्ति यदनेन कर्मणा इदं फलममुत्राप्यत इति, नचैते वेदादिकं पठन्ति, नाप्यन्येभ्य आगमयन्ति, तेन शास्त्रार्थमविद्वांसः, फलमामुष्मिकमकामयन्तः कथं तत्साधनं कर्म कुर्युः ? तस्मान्न धर्मार्थमुपवसन्तीति । किमर्थं तर्हितेषा- मुपवासः ? उच्यते, रोगादरुचिरेतेषाम् । तर्हि नियतकाले कथं रोगः ? उच्यते, नियतकाला अपि रोगा भवन्ति । यथा तृतीयकचातुर्थिकादिज्वराः । अधनाश्चैते । तस्मान्न गवादीनां तिरश्चामधिकारः । यानि पुनर्लिङ्गानि “ देवा ह वै सत्रमासत ” इत्यादीनि अर्थवादास्ते विधिप्ररोचनार्थाः । इत्थं सत्राणि प्रशस्तानि यानि कृतकृत्या अपि देवा आसते । आसन्नचेतनास्तिर्यञ्चोऽपि । अचेतना वनस्पतयोऽपि । किं पुनर्मनुष्या यथाश्रुतम नुष्ठातुं समर्था इति ।
१ आसन्नेषु समीपवर्तिषु चेतना बुद्धिर्येषामिति विग्रहः ।
८ कात्यायनश्रौतसूत्रम् । तस्माद्यथाश्रुतकरणसामर्थ्यान्मनुष्याणामेवाधिकारो, न गवादीनामिति सिद्धम् ॥ ४ ॥ एवमपि मनुष्याणामधिकारे प्राप्ते आह- ( अङ्गहीनादीनामधिकारः ) अङ्गहीनाश्रोत्रियषण्ढशूद्रवर्जम् ॥ १ । १ । ५ ॥ अङ्गहीनाश्रोत्रियषण्ढशूद्रान्वर्ज्जयित्वा मनुष्याणामधिकारः कर्मसु भवति । मनुष्या अपि ये अङ्गहीना अङ्गेन चक्षुरादिना हीना अन्धपङ्गुमूकबधिरादयः, अश्रोत्रिया अनधीतवेदाः, षण्ढा नपुंसकाः, शूद्राश्च नैतेषामधिकार इत्यर्थः । आरम्भसामर्थ्यादित्यत्राप्यनुवर्त्तते। न चैतेऽङ्गहीनादयो यथाश्रुतं कर्म्मारब्धुं, कर्त्तुं वा शक्नुवन्ति । तद्यथा, नह्यन्ध आज्यावेक्षणं कर्त्तुं शक्नोति, मूको मन्त्रोच्चार- णम्, पङ्गुश्च विष्णुक्रमणम्, बधिरश्च प्रैषश्रवणम् । अनधीतवेदोऽश्रोत्रिय इत्यु- च्यते । स च न किमपि मन्त्रसाध्यं कर्म कर्त्तुं शक्नोति । षण्ढो नपुंसकः । तस्या- प्यनधीतवेदत्वादद्रव्यत्वादशुचित्वाच्च नाधिकारः । शूद्रस्य चानधीतवेदत्वाद- नधिकारः । आज्यावेक्षणादिभिश्च विना कर्मणो वैगुण्यं भवत्येव । ननूक्तमश- क्याङ्गरहितकर्मानुष्ठानादधिकारो भविष्यतीति । अत्रोच्यते, भवेदेवं यदि आज्यमवेक्षत इत्यादीन्यङ्गवाक्यानि स्वातन्त्र्येण पुरुषैः सम्बध्येरन् । प्रधानवा- क्यशेषत्वात्तेषां तदङ्गयुक्तेन प्रधानवाक्येन तदङ्गयुक्तः क्रतुः पुरुषैः सम्बध्यमा- नोऽसमर्थान् परित्यज्य समर्थान्प्रति ज्ञायते । तेनान्धस्यक्रतुरेवाविहितो, न त्वा- ज्यावेक्षणमेवाविहितमितरच्च विहितमिति मन्तव्यम् । न च प्रधानवाक्यविरोधः, सर्वाधिकारानिश्चयात्, विशेषाभावाद्धि सर्वाधिकारः स्यादस्त्यविशेष आर- म्भसामर्थ्यम् । अतः समर्थानामेवाधिकारः । यत्र तु प्रधानवाक्यविरोधो यावज्जीवं यजेतेत्यादौ । तत्र यथाशक्ति- प्रयोगादपि फलं भवति । तद्विरोधे तु सर्वाङ्गयुक्तकर्मानुष्ठानमेव फलम् । न तु, आरम्भसामर्थ्यादित्यनेनैव गवादीनामिवान्धादीनामप्यधिकाराभावसिद्धेः, किमर्थं पुनरङ्गहीनादिवर्जमित्युक्तम् ? उच्यते-नियमार्थम् । एतेषामेवानधिका- १ “नैवाज्यावेक्षणादीनां पुरुषं प्रति चोदना । क्रतुं प्रति विधिस्तस्मान्नाशक्त- स्याधिकारिता ” इत्युक्तेः । “नाश्रोत्रियकृते यज्ञे ग्रामयाजिहुते तथा । स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित्' इति स्मृतेस्तेषां गृहे भोजनस्यापि निषेधः, कुतो यज्ञाधिकारः ? यज्ञान्ते ब्राह्मणभोजनस्यावश्यकत्वात् ।
[Header] देवयाज्ञिकभाष्यसमेतम् । ९
रो न निर्धनस्य। तस्य चाधिकारो भवत्येव । न त्वारम्भसामर्थ्याभावादनधि- कारः । अतो निर्धनोऽपि क्रत्वर्थं धनमर्जनादिना सम्पाद्यावश्यं यजेतेति । एवमन्धादिरपि ओषधिशास्त्रादिनाऽन्धत्वादिकं स्फोटयितुं शक्नोति तस्याप्यधि- कारो भवत्येव । पूर्वमङ्गहीनत्वावस्थायामाहिताग्निश्चेदकस्माद्रोगादिनाऽङ्गवैकल्ये जाते कर्मस्वधिकारो न भवति । नित्येषु तु यथाशक्ति कुर्वन्नधिक्रियत एव । अङ्गवैकल्ये सति अग्न्याधेयं न भवत्येव । (त्रिकाण्ड) मण्डनः— “ दर्शेटिं पौर्णमासेष्टिं सोमेड्यामनिसङ्ग्रहम् । अग्निहोत्रं विवाहं च प्रयोगे प्रथमे स्थितम् । न कुर्याज्जनके १ज्येष्ठे सोदरेचाप्यकुर्वति । ज्येष्ठे श्रद्धा- विहीने सत्याधेयं तदनुज्ञया । पितुः सत्यप्यनुज्ञाते ना
१० कात्यायनश्रौतसूत्रम् । ( शूद्राणामनधिकारः ) ब्राह्मणराजन्यवैश्यानाञ्च्श्रुतेः ॥ १ । १ । ६ ॥ शूद्रस्य कुतो नाधिकार इत्यत्र हेतुः। ब्राह्मणराजन्यवैश्यानामेवाधानं श्रू- यते । यतो ब्राह्मणादीनां त्रयाणामेवाधानं श्रूयते, न शूद्रस्य । तथाहि—“ व- सन्ते ब्राह्मणोऽग्नीनादधीत, ग्रीष्मे राजन्यः, शरदि वैश्यः” इति । अतः शूद्रस्या- ग्न्याधानश्रवणाभावादनग्निः शूद्रः । अतस्तस्याग्निसाध्ये कर्मण्यधिकाराभावः । नन्वनाहितानेवाग्नीन् क्रीतलब्धानादाय करिष्यति । मैवम् । आदधीतेत्यात्मने- पदाद्धातोरेव फलेन भवितव्यम्, कर्मयोग्यता चाग्नीनां तत्फलम्, अतोऽन्येऽन्या- हिता अन्यस्य कर्म न साधयन्ति । तेनानाहितानामग्नीनामुपादानमयुक्तम् । अतः शूद्रस्याधाना श्रवणात्तदेकोपायसाध्यानामग्नीनाम
ब्राह्मणं स्वर्गकामं च पुरुषमेवाधिकृत्य यजेतेत्येष उच्चरितः, स्त्रियं पुमांसं वेति । किं तावत्प्राप्तम् ? पुंलिङ्गनिर्देशात्पुरुषस्यैवाधिकारः । कुतः ? अत्र १'लिङ्गस्य प्रकृत्यर्थतया विवक्षितत्वात् । यथा " ग्रहं संमाष्टिं " इत्यत्र । अतः पुरुषस्यै- वाधिकारो, न स्त्रियाः, अद्रव्यत्वत्वात् । यतः स्त्री निर्धना; अतः सा द्रव्य- त्यागात्मकं कर्म कर्तुं कथं शक्नोति ? द्रव्याभावात् । द्रव्याभावश्च " भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्ध- नम् " इति । स्मृतेः तस्मात्पुरुषस्यैवाधिकार इति प्राप्त आह—
(पुंसा सहैव स्त्रिया अधिकारः) स्त्री चाविशेषात् ॥ १ । १ । ७ ॥
स्त्री च अग्निहोत्रादिकर्मस्वधिकारिणी भवति । कुत ? अविशेषात् । यतः स्वर्गकामो ब्राह्मण इत्येतत् पुंलिङ्गं श्रूयमाणमपि न विशेषकरम् । यत इदमुपदिश्यमानस्य विशेषणम् । यः स्वर्गकामः स यजेतेत्येवम् । तेन विधिसं- स्पर्शाभावाद्विवक्षितम् । अतो न पुरुषस्यैवाधिकारः । किन्तु स्त्रिया अपि । अथवा अविशेषादित्यर्थः । तदुक्तं जैमिनिना " फलोत्साहाविशेषाच्च " इति (६-१-३-१३)
ननूक्तं निर्द्धनत्वान्नाधिकार इति । मैवम्, धनवती हि सा, तस्या अपि कर्तनादिना द्रव्यार्जनस्य सम्भवात् । पितृभ्रातृभर्त्रादिदत्तसम्भवादज्जितस्यो- भयसाधारणत्वाच्च । " धर्मे चार्थे च कामे च नातिचरितव्या (इत्युक्तेः) पाणिग्रहाद्धि सहत्वं कर्मसु तथा कर्मफलेषु च " " द्रव्यपरिग्रहेषु च" इत्यादि- स्मरणात् ।
ननूक्तं "यत्ते समधिगच्छन्ति" इत्यादिकम्:। तत्रोच्यते स्मृतिप्रमाण्यान्निर्ध- नतया भवितव्यम् । श्रुतिविशेषात् फलार्थिना यष्टव्यम्, यदि स्मृतिमनुरुध्य भार्या परवशान्निर्धना स्यात् । यजेतेत्युक्ता सति न यजेत । तत्र स्मृत्या श्रुति- र्बाध्येत । न चैतद्युक्तम् । तस्मात्फलार्थिनी सती स्मृतिमप्रमाणीकृत्य द्रव्यं परिगृह्णीयात्, यजेत चेति । अतः स्मर्यमाणमपि निर्धनत्वमन्याय्यमेव । श्रुति-
१ 'लिङ्गविशेषनिर्देशात्पुंयुक्तमैतिशायनः" इति जैमिनीयं पूर्वपक्षसूत्रं मनसि निधायोक्तमत्रेत्यादि ।
१२ कात्यायनश्रौतसूत्रम् । विरोधात् । अतो निर्धनत्वप्रतिपादकं वचनमस्वातन्त्र्यपरं व्याख्येयम् । तस्मा- त्स्त्रिया अपि फलार्थित्वाविशेषाद्धनवत्त्वाच्चाधिकारो भवति ॥ ७ ॥ दर्शनाच्च ॥ १ । १ । ८ ॥ दृश्यते चायमर्थो वेदे । यत्पत्न्यपि कर्मस्वधिक्रियत इति । "मेखलया यजमानं दीक्षयति योक्त्रेण पत्नीम्" इति "पत्नी लौह" इति "पत्नी च गार्हपत्ये तूष्णीम्" इति च । अत्र योक्त्रादिविधिपरेषु वाक्येषु पत्न्या अपि कर्म- स्वधिकारदर्शनात्पत्न्यप्यधिक्रियत इत्युक्तम् । अथवा वेदे पत्न्या अपि धनव- त्त्वाददर्शनाच्च पत्न्यप्यधिक्रियते । तथाहि "भयदा पत्नीं संयाजयन्ति भयद्धीर्या हि पत्न्यो भयदा वा एताः परगृहाणामैश्वर्यमवरुन्धत" इति । एवं पत्न्या अ- धिकारे सिद्धे, इदं चिन्त्यते । किं पत्नी पृथग्यजेत, यजमानश्च पृथक्, उतोभौ सम्भूय यजेयातामिति । किं प्राप्तम् ? पृथक् पृथगिति । कुतः ? यजेतेत्याख्या- तप्रत्ययगताया एकलसङ्ख्याया उद्देश्यगतत्वाभावेन विवक्षाया वारयितुमशक्य- त्वात् । अत एककर्त्तृत्वसिद्धये यजमानेन पत्न्या च पृथग्यागः कर्तव्य इति पूर्वः पक्षः । सिद्धान्तस्तु । न पृथग्यागः कार्यः कुतः ? वैगुण्यसम्भवात् । दर्शपूर्ण- मासादौ आज्यस्य पत्न्यवेक्षणं यजमानावक्षणं चेत्युभयमाम्नातम्स्ति । तत्र पृथक् प्रयोगे क्रियमाणे यजमानकर्तृके यागे पत्न्यवेक्षणं लुप्येत, पत्नीकर्तृके च यजमानावक्षणम् । तस्माद्वैगुण्याय सहैव दम्पती यजेयाताम् । ननु पृथगपि यजमानः पुमानध्वर्त्वादिवत्परिक्रयेणाज्यावेक्षणार्थं पत्नीं सम्पादयिष्यति स्त्री च यजमानम् । मैवम्, स्वामिनः परिक्रयेणासम्पन्नत्वात् । न हि या काचित् स्त्री पत्नी शब्दवाच्या । यज्ञस्वामिनी हि सा । "पत्युर्नोयज्ञसंयोगे" इति पाणिनि- स्मरणात् । एवं यजमानशब्दमपि यज्ञस्वामिन्येव स्मरन्ति । तस्मात्सहैव कर्तृ- त्वमुभयोः । न च यजेतेत्येकवचनं विरुद्धम् । अग्नीषोमौ देवतेत्यत्र यथा व्यासक्तयोर्देवतात्वाद्देवैक्यम्, तथा दम्पत्योरेकमेव कर्तृत्वमित्यङ्गीकारात् । अनयोर्हि उद्वाहकाल एव द्रव्यसाधारण्यमुक्तम् । "धर्मे चार्थे च कामे च नातिचरितव्या" इत्यनेन । अतो यस्त्यागः स इतरेतरसंसृष्टयोरेव दम्पत्योः । नहि साधारणमेकेन त्यक्तुं शक्यते । भिन्नयोरपि दम्पत्योः संसृष्टद्रव्ययोः पृथक् स्वतन्त्रकर्तुमप्रभवतोरेकमेव स्वातन्त्र्यलक्षणं कर्तृत्वम् ।
देवयाज्ञिकभाष्यसमेतम् । १३ ननु सत्रिवत्कर्तृभेद इति युक्तमेकवचनम् । सत्रिणां हि पृथग्द्रव्यतया पृथगेव कर्तृशक्तिर्वाचनिकानेकर्तृत्वसिद्ध्यर्थं तु कर्तॄणां साहित्यम् । इह तु सहैव कर्तृत्वमिति विशेषः । ननु साधारणमपि धनं विभज्य पृथग्यागः सम्भवति, मैवम्, यतस्तयो- र्विभागः प्रतिषिद्धो न भर्त्रा सह विभजेदिति । तस्मान्न विभज्य यागः । अतो द्रव्यसाधारण्याद्विभागप्रतिषेधाद् “ धर्मे चार्थे च कामे च नातिचरित- व्या ” इतिवचनात्पृथक्प्रयोगे प्रागुक्तवैगुण्यापत्तेश्च स्वामिभ्यां समुचिताभ्या- मेवेक्षितस्याज्यस्य कर्माङ्गत्वान् न पृथक् कर्तृत्वम्, किन्तु सहैव । एवंच यजमान- विद्वत्तयैव पत्न्या अपि कार्यसिद्धेर्नाविद्वत्तया तस्या अधिकारभङ्गः । अत एव सूत्रकारः “ अनुचरीर्वा फलाधिकारादितरासाम् ” इति पत्न्या अपि फलं दर्शयति । तिरपि “ दिवि ज्योतिरजरमारभेत ” इति । तथा च स्मृतिः । “ नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् । शुश्रूषयति भर्त्तारं तेन स्वर्गे महीयते ” इति । एवं दम्पत्योः सहाधिकारे तुल्यफलत्वे च सिद्धे इदं चिन्त्यते । किं सर्वं याजमानं पत्न्या अपि कर्त्तव्यम् ? उत यावदुक्तमाशीर्ब्रह्मचर्यादिकमिति । किं प्राप्तम् ? तस्या अपि यजमानत्वेन तुल्यत्वात्सर्वं याजमानं तयापि कर्त्तव्यमित्ये- वं प्राप्ते ब्रूमः । अत्र जैमिनिसूत्रम्, “तस्या यावदुक्तमाशीर्ब्रह्मचर्य्यमतुल्यत्वात्” इति । ( ६-१-६-२४ ) तस्या यावदुक्तं स्यात् । अतुल्यत्वात् । यजमानस्तु पुमान् विद्वांश्च । पत्नी च स्त्रीत्वाविशेषाच्च । अतः ऋत्वर्थेषु यानि यजमानं गृह्णन्ति । तद्यथा “ यजमानो वेदं बध्नाति ” “पात्राण्यासादयति” “ शुक्र- मन्वारभेत ” इत्यादीनि । तत्र यजमानस्योपादेयत्वादेकवचनं विवक्षितम् । अतस्तत्र पत्न्या न कर्तृत्वम् । एवमेव “ पत्न्याज्यमवेक्षते ” “ श्रदस्मै नर इत्येनमवेक्षते पत्नी ” इत्यादौ पत्न्या एव कर्तृत्वं न यजमानस्य, उक्तादेवहेतोः, यानि च ऋत्वर्थानि समन्त्रकाणि तेष्वविषयत्वात्पत्नी न स्यात् । स्त्रीणामध्ययन- प्रतिषेधात्सा मन्त्रोच्चारणं कर्तुं न शक्नोति । न चान्यथानुपपत्त्या तस्या अप्यध्य- यनं कल्पयितुं शक्यते । सम्पन्नविद्येन पुंसा तेषामनुष्ठानसिद्धेः । यद्धि ऋत्वर्थं तदेकेन येन केनचित्कर्तव्यम् । अतोऽनुपपत्तेः क्षीणत्वात्प्रतिषिद्धस्य पत्न्या अ- ध्ययनस्य पुनः प्रसवे न किंचित्प्रमाणमस्ति, तस्मात्तदपि पत्न्या न कर्त्तव्यम् । याश्चाशिषो यच्च ब्रह्मचर्यं तत्पुरुषं प्रति गुणभूतं न तत्रान्यतरेण कृते सि-
ध्यति, अन्यतरस्य संस्कारो हीयेत । नच तत्र यजमानस्योपादेयत्वेन श्रवणम् । तस्माल्लिङ्गमप्यविवक्षितम् । अत आसां ब्रह्मचर्यमुभयोः “आशीः”शब्देनात्र- संस्कारा लक्ष्यन्ते । व्रत्याशनाधःशयनपावनाक्षाञ्जनाभ्यञ्जनादयः । ते ह्युभयो- र्भवन्ति । संस्कारेष्वपि पत्न्या वपनं न भवति । कुतः ? वपनविधौ “केशश्मश्रु- वपते” इति समाहारद्वन्द्वोऽयम् । तत्र केशश्मश्रुणोरितरेतरयोगे सति शास्त्रोक्तं वपनं न सम्पद्यते । न च पन्त्यास्तयोः साहित्यमस्ति । श्मश्वभावात् । अतस्त- स्या न वपनमसामस्त्यादिति तन्त्ररत्ने । ब्रह्मचर्यग्रहणं काम्यानां लक्षणार्थम् । ब्रह्मचर्याशीर्ग्रहणेनैव लक्षितत्वात् । कामा अपि पत्न्या भवन्ति, तदभावेऽधि- कारानुपपत्तेः । ये मन्त्राः क्रत्वर्थकास्तेष्वपि यजमान एव कर्त्ता विद्वत्त्वात्स्व- तन्त्रत्वाच्च । अतः सर्वं समन्त्रकममन्त्रकं च याजमानं यजमानेनैव कर्त्तव्यम् । आहत्य विहितं त्वाज्यावेक्षणादि पत्न्या कर्त्तव्यं नान्यत् । तदेवमङ्गहीनादिवर्जि- तानां ब्राह्मणक्षत्रियवैश्यानां पत्नीसहितानामग्निहोत्रादिकर्मस्वधिकार उक्तः ॥८॥ (रथकारस्याधान एवाधिकारः) अथ रथकारस्याधिकारमाह- रथकारस्याधाने ॥ १ । १ । ९ ॥ रथकारस्याधाने अग्न्याधानकर्मणि अधिकारो भवति । “वर्षासु रथ- कार आदधीत” इतिश्रुतेः । अत्रेदं सन्दिह्यते । किं त्रैवर्णिकानामन्यतमो रथकरणयोगाद्रथकार इत्युच्यते ? आहोस्विन्नियतं किञ्चिज्जात्यन्तरमिति । किं तावत्प्राप्तम् ? त्रैवर्णिकानामन्यतम एवेति । कुतः ? सोऽपि हि रथं करोती- त्ति योगाद्रथकार इत्युच्यते । तस्य च त्रैवर्णिकत्वादाधानं प्राप्तमेव । ऋतुमात्रं विधे- यम् । तथा सत्येकार्थविधानाद्वाक्यभेदो न भवति, लाघवं च । जात्यन्तरपक्षे तु तस्याधानं विधातव्यमृतुसम्बन्धश्च । तथा सति वर्षास्वादधीत रथकार आद- धीतेत्येवं वाक्यभेदः स्यात् । अपि तु शूद्रस्त्वसमर्थत्वात्प्रतिषिद्धः । तस्मा- त्त्रैवर्णिकानामन्यतम एवेति पूर्वः पक्षः ॥ ९ ॥ सिद्धान्तमाह— नियतं च ॥ १ । १ । १० ॥ चो वेत्यर्थे । वाशब्दश्च पूर्वपक्षनिरासार्थः । न त्रैवर्णिको रथकारः । तस्या- शिल्पोपजीवनस्य प्रतिषिद्धत्वात् । किन्तु नियतं जात्यन्तरमेव । अत्र केचिदेव- माहुः-वैश्यायां क्षत्रियादुत्पन्नो माहिष्यः, शूद्रायां वैश्यादुत्पन्ना करणी, तस्यां
देवयाज्ञिकभाष्यसमेतम् । ३५ च करण्यामाहिष्यादुत्पन्नो रथकार इति । तदुक्तं स्मृतौ । “माहिष्योग्रौ प्रजायेते विट्शूद्राङ्गनयोर्नृपात् । शूद्रायां करणो वैश्याद् ” इति । याज्ञवल्क्योऽपि “वै- श्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ । वैश्यात्तु करणः शूद्यां विन्नास्वेष विधिः स्मृतः ।” विन्नासु विधिना परिणीतासु । तथा । “माहिष्येण करण्यां तु रथकारः प्रजायते” इति । अतो रथकारशब्द एवंविधसङ्करजातौ रूढः । रूढिश्च योगाद् बलीयसीतिन्यायात् । रथं करोतीति योगं बाधित्वा जात्यन्तर- मेव रथकारशब्देनोच्यते । तस्यैवाधानं कालविशिष्टं विधीयते । विशिष्टविधा- नाच्च वाक्यभेदोऽपि न भवति अपरे त्वाहुः—रथकारशब्देनात्र सुधन्वनां ग्रहणम्। “ऋभूणां च” इत्याधानमन्त्रवर्णात् । सौधन्वनाश्च ऋभव इति सामाना- धिकरण्यनिर्देशात् । तथाचाह मनुः । “ व्रात्या तु जायते वैश्या न सुधन्वाचा- र्य एव च । पारुषश्च विजन्मा च मैत्रः सात्वत एव च” इति । अतो मनुक्तो यः सुधन्वा व्रात्यवैश्यपुत्रः, तत्पुत्राणां सौधन्वनानामृभूणामेवात्राधिकारः । य- स्तुयाज्ञवल्क्येनोक्तो न तस्याधिकारः, सत्यपि रथकारशब्दवाच्यत्वे मन्त्रव- र्णात् । छागन्यायेन सौधन्वनानामेवाधिकार इति । तथाच जैमिनिः। “सौध- न्वनास्तु हीनत्वान्मन्त्रवर्णात् प्रतीयेरन् ” ६-१-११-५० इति । सौधन्वना- नामजातिहीनास्ते केचिन्त्रैवर्णिकेभ्यो जात्यन्तराः । नच ते शूद्रा, न वैश्या, न क्षत्रिया, न ब्राह्मणा इति । तेषामिदमाधानम् । कथमप्रसिद्धेर्मन्त्रवर्णाच्च । मन्त्रवर्णो हि भवति । सौधन्वना ऋभव इति । “ऋभृणत्वा” इति च रथकार- रथाधानमन्त्रः । तस्मात्सौधन्वना ऋभवश्च रथकाराः । अपि च “तं नेमिमृभवो यथा” इतिच । ‘ये नेमिं नमन्ति ते ऋभवः’ इत्युच्यन्ते । रथकाराश्च नेमिं नमन्ति । तस्मात्त्रैवर्णिकानामशूद्राणामेतदाधानमिति शबरस्वामिनः ॥ १० ॥ ननु विध्यभावेन सौधन्वनानामसमर्थतयाऽनधिकारात्त्रैवर्णिक एवावयव- व्युत्पत्त्या रथकारशब्देन किमिवि न गृह्यते । सोऽपि हि रथकारो भवति । तस्याधानं प्राप्तमेवानूद्य, ऋतुमात्रविधानाल्लाघवं भवति । जात्यन्तरे तु विशिष्ट- विधानाद् गौरवं स्यादित्याशङ्कायामुत्तरमाह— नाभावादित्वात्स्यः ॥ १ । १ । १२ ॥ वात्स्य ऋषिरित्याह । न त्रैवर्णिको रथकारः । कुतः ? अभावात् । त्रैवर्णिकस्य रथकारस्याभावात् । कथमभावः ? यौगिकोऽयं शब्दो रथं करोतीति रथकार इति तेन यावत्कालं रथकरणसम्बन्धस्तावत्कालं रथकार इत्युच्यते न
१६ कात्यायनश्रातसूत्रम् । सर्वदा। अतस्त्रैवणिकस्य रथकारस्याभावात्, विचारहितस्यापि ऋभुसौधन्वन- सात्वनापरपर्यायस्य जात्यन्तरस्य रूढ्यवगतस्य वचनादाधानेऽधिकारो भवति । अत्र पार्थसारथिमिश्रा आहुः। रथकारस्यैव ऋभुसौधन्वनसात्वताद्यपर- नामधेयस्याऽऽधानान्तरं वर्षासु विधीयते वचनात्। नहि वचनस्य किञ्चिदश- क्यमस्ति। तेन तावद्रूढिबलेन योगं बाधित्वा सौधन्वनानामाधाने विहिते तद्व- लेनैव यथाकञ्चिन्मात्रौपयिकं विद्यार्जनमपि विनोपनयनमाक्षिप्यते। स्वाध्याय- विधिविहिताध्ययनाङ्गत्वान्दुपनयनस्य रथकारस्य तदभावादाधानविधिनेव विद्या- र्जनमाक्षिप्यते। नचास्याऽऽधानसम्भवेऽपि क्रत्वधिकारः सम्भवति। विद्याभावात्। आधानविधिस्तु तावन्मात्रोपक्षीणत्वान्नक्रतुष्वधिकारं कल्पयितुमर्हति । तेन प्रधानकर्मैव तस्याधानं विश्वजिदादिवत्कल्प्यफलम्। नचास्याऽऽहवनीयाद्युत्पा- दकत्वम्, अर्थकर्मत्वेनाग्निसंस्कारानर्हत्वात् । तस्मादाधानं प्रधानकर्म रथकार- स्य विधीयत इति ॥११॥ रथकारस्याधान इत्येवमादीनां सूत्राणामपरा व्याख्या। रथकारस्याधा- नेऽधिकारो भवति तत्र श्रुतत्वादित्युक्तम् । रथकारशब्दस्तु जात्यन्तर एव रूढः। अतो यौगिकाशङ्कैवनास्ति। अतः प्रकारान्तरेण व्याख्यानं क्रियते। रथकारस्य किमाधानमात्रेऽधिकार उत त्रैवर्णिकवत्सर्वकर्मस्वपीति ? तत्र
देवयाज्ञिकभाष्यसमेतम् । १७
तत्र; कुतः ? अभावात् । लिङ्गाभावस्यैवाभावात् । लिङ्गसद्भावादित्यर्थः । कानि पुनस्तानि लिङ्गानि यै रथकारस्यापि कर्मस्वधिकारो व्याक्रियते ? उच्यते— “ आधावेति शूद्रस्य ” “अष्ठीवद्दध्नं शूद्रस्य” “मस्तु शूद्रस्य” इति । शूद्रस- म्बन्धाद्रथकारोऽत्र शूद्रशब्देनाभिधीयते, तस्य मातामही शूद्रेति । चतुर्थवर्णस्य शूद्रस्य तु प्रतिषेध उक्तः, “ शूद्रवर्जम् ” इति । तेनैतानि गौणशूद्रविषयकाणीति । रथकारस्याधानमात्रेऽधिकारपक्षे, एतानि निर्विषयान्येव स्युः । तस्माद्रथ- कारस्योत्तरकर्मस्वप्यधिकार इति सिद्धम् । तथाचोक्तं याज्ञवल्क्यस्मृतिविवृत्तौ मिताक्षरायां विज्ञानेश्वरेण, “क्षत्रियेण वैश्यायामुत्पादितो माहिष्यः, वैश्याच्छू- द्रायामुत्पादिता करणी, तस्यां माहिष्येणोत्पादितो रथकारो नाम जात्या भवति । तस्य चोपनयनादि सर्वं कार्यं वचनात् ; तथाह शङ्खः—क्षत्रियवैश्यानुलोमान- न्तरोत्पन्नजो रथकारस्तस्याध्ययनेज्यादानोपनयनसंस्कारक्रियाश्चाप्रतिषिद्धा, रथसूत्रं वास्तुविद्याध्ययनवृत्तिता चेति । रथसूत्रं रथविधेति मञ्जर्य्या व्याख्यातम् । तत्र तु संस्कारक्रियाश्चाप्रतिषिद्धा रथसूत्रमित्येवं पाठः । अतो याज्ञवल्क्योक्त एव रथकारोऽत्र गृहीतुं न्याय्यः, तस्य च शङ्खोक्तयज्ञादिकर्मस्वधिकारः । तथासति “ आधावेति शूद्रस्य ” इत्यादीनि वेदवाक्यानि सार्थकानि भवन्ति ।
१ “ लिङ्गाभावानधिकारो गम्यते । एवमभिधाय पुनराधिक्येन व्याख्यायते । अभावाल्लिङ्गानामुपरितनकर्मस्वधिकारो न स्यात् । अस्ति तु लिङ्गस्य भावः । न च लिङ्गभा- वमात्रेणैवानधिकारो गम्यते । आधानं हि तस्य श्रुतम् । तद्धि संस्कार्याग्निद्वारेण परार्थमिति वात्स्यग्रहणमुक्तार्थम् ” इति कर्कः । ‘ अस्ति तु भावः’ इति सामान्येनोक्तं लिङ्गसत्त्वं प्रदर्शयति अपिचेत्यादिना । नाभावादिति सौत्रपदे न अभावो नाभाव इति नञ्शब्देन सुप्सुपेति समासः । उत्तरकर्मस्वनधिकारप्रयोजकत्वेनाभिमतस्य लिङ्गाभावस्याभावादित्यर्थः । उत्तरकर्मसु रथकारस्याधिकारोऽस्त्येवेति शेष इति महामहोपाध्यायश्रीनित्यानन्दपर्वतीयगुरु- चरणाः । २ अत्राह भगवान् खण्डदेवः—मम तु प्रतिभाति—नाधानस्यार्थकर्मत्वं प्रमाणाभावा- त् । अग्नीनिति द्वितीयान्तपदे लक्षणादेरावश्यकत्वे रथकारपदे योगाङ्गीकारस्यैव न्याय्यत्वाच्च; अपि त्वाहवनीयाद्युत्पादकत्वमेव । न च तेषामनुपयोगः, अविद्वत्तया क्रत्वधिकाराभावेन
१८ कात्यायनश्रौतसूत्रम् । 'मनूक्त व्रात्यवैश्यजातसुधन्वपर्याये रथकारे गृह्यमाणे तेषां वैयर्थ्यमेव स्यात् । न च तदिष्यते । तस्माद्याज्ञवल्क्योक्तमेव श्रुतम् , श्रुतिसम्मतत्वादिति ॥११॥ ( स्थपतिनिषादस्य गावेधुकेष्टावधिकारः ) निषादस्थपतिर्गावेधुकेऽधिकृतः ॥ १ । १ । १२ ॥ निषादस्थपतिर्गावेधुके चरावधिकृतोऽधिकारी भवति । एवं हि श्रूयते- “ यस्य रुद्रः प्रजाः शमयेत्स वास्तुमध्ये रौद्रं चरुं निर्वपेत् ” इति, एतामिष्टिं प्रक्रम्य श्रुतम् , “ एतया निषादस्थपतिं याजयेत् ” इति; निषादस्थपतिर्यजे- तेत्यर्थः । तत्रायं सन्देहः, किमयं षष्ठीसमासः, निषादानां स्थपतिर्निषादस्थपति- रिति, निषादश्चासौ स्थपतिश्च निषादस्थपतिरिति कर्मधारयो वा । तत्र यदि षष्ठीसमासस्तदा यो द्विजातिरेव विद्वान् निषादानामाधिपत्यं करोति, तस्यात्रा- धिकारः, यदि च कर्मधारयस्तदा निषाद एव यः स्थपतिस्तस्यात्राधिकार इति । तत्र त्रैवर्णिकस्यैव समर्थत्वाद्द्विद्त्वाद्वाग्निमत्वाच्चात्राधिकारो युज्यते, अन्य- जातीयस्य निषादस्यावैधत्वेनानग्नित्वेन चासमर्थत्वात् । तस्मात् षष्ठीसमास एवायमिति पूर्वः पक्षः । तत्रानुपयोगेऽपि “ आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्च” इति वचनविहिते दाहे, उपयोग- सम्भवात् । न ह्ययं दाहः कर्मोपयुक्ताहिताग्निप्रतिपत्त्यर्थः, येन कर्माभावेनाभावः शङ्क्येत । तथात्वे, आहिताग्निपदेनाधानस्यैवोपस्थितेस्तदङ्गत्वस्यैवापत्तौ क्रत्वङ्गत्वानापत्तेः, न चेष्टाप- त्तिः। तथात्वे प्रतिपत्तिं विना आधानफलाहवनीयादेरनिष्पत्त्यापत्तेः । अतः फ- लश्रवणादर्थकर्मैवेदमिति युक्तस्तत्राहवनीयादेरुपयोगः । पवमानेष्ट्यङ्गभूतपात्रसत्त्वाच्च यज्ञ- पात्रसमुच्चयेऽपि न क्षतिः । अत एव पवमानेष्ट्युत्तरं प्राक् ऋतुभ्यो मरणे अग्निभिः पात्रैश्च दाहः, पवमानेष्टिभ्यः पूर्वं मरणे तु, उक्तवचनबलादग्निभिरेव दाह इति । तन्त्ररत्ने तु- यद्यपि च विद्याभावादस्योत्तरक्रतुष्वनधिकारः स्यात्तथाप्याधानमात्रमरणिममथितलौकिकाग्नि- गुणकं कल्प्यस्वर्गफलं सधर्मकमनुष्ठेयम् । एवं चाहवनीयादेरनुपयोगादभावेन तदुद्देशेन विहितानां ' नक्तं गार्हपत्यमादधाति ' इत्यादीनां धर्माणां लोपेऽपि, एकस्मिन्नेव कुण्डे स्थण्डिले वा त्रिषु वा तेष्वग्न्याधानमितराङ्गयुक्तं कार्यमिति । १ व्रात्यात्तु जायते वैश्यात्सुधन्वाचार्य एव च ।
देवयाज्ञिकभाष्यसमेतम् । १९ सिद्धान्तस्तु—कर्मधारयो निषादश्चासौ स्थपतिश्चेति । कुतः ? षष्ठीसमा- सपक्षे निषादपदे लक्षणाप्रसक्तेः । न ह्यत्र षष्ठी श्रूयते यतः सम्बन्धः प्रतीयेत, अतो निषादपदे¹नैव षष्ठ्यर्थो लक्षणीयः । इतरस्मिंस्तु पक्षे द्वयोरपि पदयोर्मु- ख्यार्थतैव, न लक्षणा । तस्मान्निषाद एव स्थपतिरत्राधिकारी । श्रुति- बलादविद्वाननग्निमानपीति सिद्धम् । अपि चात्र निषादद्रव्यं दक्षिणा श्रूयते “२कूटं दक्षिणा काणो वा गर्दभः ” इति । कूटं हि निषादानामेवोपकारकम्, ३नार्या- णामिति ॥ १२ ॥ १ शब्देनेत्यपि पाठः ख पुस्तके । २ कूटं हलाग्रसंस्थितं लौहम् । ३ अत्राहुः प्राञ्चः—पक्षद्वयेऽपि शब्दोऽयं योगादेव प्रवर्तते । तत्र षष्ठीसमासत्वे विदुषः स्यादधिक्रिया ॥
२० । कात्यायनश्रौतसूत्रम् । ( स्त्रीप्रसङ्गे ब्रह्मचारिणः प्रायश्चित्तम् ) वाऽवकीर्णिनो गर्दभेज्या ॥ १ । १ । १३ ॥ यो ब्रह्मचारी सन् स्त्रियं गच्छति, सोऽवकीर्णी, तस्यावकीर्णिनः स्ख- लितब्रह्मचर्यस्य गर्दभेज्या, गर्दभेनेज्या यागो गर्दभेज्या प्रायश्चित्तार्था भवति । वाशब्दो विकल्पार्थः । तेन 'गृह्योक्तमपि प्रायश्चित्तान्तरमाज्याहुतिद्वयरूपं विक- ल्पेन भवति, "अथापरमाज्याहुती जुहोति, कामावकीर्णोऽस्मि." इत्यादि- कम् । शाखान्तर उभयस्य विकल्पेन श्रुतत्वात् ॥१३॥ चानुभवात् , राज्ञः पुरुषोऽस्तीत्यादौ व्यधिकरणपदस्थले च भेदसम्बन्धेनैवानुभवाल्लाघ- वेन नामप्रयोज्यतदर्थान्वयबोधस्याभेदविषयकत्वमेवेति नियमकल्पनात् स्वस्वामिभावादि- सम्बन्धस्य षष्ठीतत्पुरुषादौ संसर्गविधया भानानुपपत्तेरवश्यं पूर्वपदे स्वार्थसम्बन्धिलक्षणा- मङ्गीकृत्य तस्योत्तरपदार्थेऽभेदेनान्वय इत्यङ्गीकार्यम् । अत एव नामप्रयोज्यनामार्थविशे- ष्यकनामार्थप्रकारकाभेदसंसर्गबोधकत्वावच्छिन्नं प्रत्येकाधिकरणवृत्तिप्रातिपदिकार्थतावच्छे- दकनामद्वयसमभिव्याहारस्य द्वन्द्वभिन्ननामद्वयसमभिव्याहारस्य वा तन्त्रत्वमित्यपि बोध्यम् । तेन धवखदिरौ नीलघटावित्यादौ नामेदबोध इत्यपि बोध्यम् । न चैवं समासे सम्बन्धि- नोऽभेदान्वयाद्विग्रहे च राज्ञः पुरुष इत्यत्र षष्ठ्यर्थसम्बन्धस्य भेदेनान्वयाद् वृत्तिवाक्ययोर्भि- न्नार्थत्वापत्तेरकविधानेनेतरनिवृत्त्यनापत्तौ विभाषासूत्रवैयर्थ्यापत्तिरिति वाच्यम् । एकतरबो- धस्यावश्यकत्वेनार्थैक्याभिप्रायत् । अतश्च षष्ठीतत्पुरुषे लक्षणापत्तेर्निषादश्वासौ स्थपतिश्चेति कर्मधारय एवायम् । तेन तावद्विषये विद्यामाक्षिप्यानाहिताग्नेरपि निषादस्यैवाधिकारः । अत एव 'कूटं दक्षिणा स्वं हि तन्निषादानाम्' इति लिङ्गमपि सङ्गच्छते । तत्र च परप्रयुक्तोपजीवित्वादाहवनीयाद्यनाक्षेपेऽपि 'यत्र क्वचन होष्यन् स्यात् स पञ्चभूसंस्कारान् कृत्वा लौकिकाग्निं प्रतिष्ठापयेत्' इति स्मृतिवचनेनाग्न्यन्तराभावे होममात्रोद्देशेन लौक- काग्निविधानात्तमेव तत्तद्देशे स्थापयित्वा तस्मिन्निष्टिः कर्तव्येति ध्येयमिति । १ अथातोऽवकीर्णिप्रायश्चित्तममावास्यायां चतुष्पथे गर्दभं पशुमालभते निर्ऋतिं पाक- यज्ञेन यजेताप्त्ववदानहोमो भूमौ पुरोडाशश्रपणं तां छविं परिदधीतोर्ध्वबालमित्येके संव- त्सरं भिक्षाचर्यं चरेत्स्वकर्म परिकीर्तयन्, अथापरमाज्याहुती जुहोति कामावकीर्णोऽस्म्य- वकीर्णोऽस्मि कामकामाय स्वाहा, कामाभिद्रुग्धो (दुग्धो )ऽस्म्यभिद्रुग्धो (दुग्धो )ऽस्मि कामकामाय स्वाहेत्यथोपत्तिष्ठते, सं मा सिञ्चन्तु मरुतः समिन्द्रः सम्बृहस्पतिः । सं माय-
अत्रैतद्विचाय॑ते—किं स्थपतीष्टिरवकीर्णी पशुश्चैतदुभयमाधानसंस्कृतेष्वा- हवनीयादिषु भवति, उत लौकिक इति । तत्र प्रकृतित आहवनीयादिषु प्राप्तेरा- हवनीयादीनां चाधाननिष्पाद्यत्वात्स्थपतेरवकीर्णिनश्चाधानविध्यभावेऽपीष्टिपशू आधानं प्रयोजयतः । अत एतदर्थमेवाधानेनाहवनीयादीनुत्पाद्य तेषु तदुभयं कर्तव्यमिति प्राप्त आह— लौकिके ॥ १ । १ । १४ ॥ एतौ स्थपतीष्ट्यवकीर्णिपशू लौकिकेऽग्नौ भवतः । कुतः ? नहीमाविष्टि- पशू आधानं प्रयोजयतः; आभ्यां हि तदेव गृह्यते यद्दर्शपूर्णमासाङ्गं भवति । 'मग्निः सिञ्चतु प्रजया च धनेन चेत्येतदेव प्रायश्चित्तम् ॥ इति (पारस्करगृह्यसूत्रे तृतीयकाण्डे द्वादशी कण्डिका) रेणुकारिकास्वपि—अवकीर्णिप्रायश्चित्तमिदानीमभिधीयते । ब्रह्मचारी स्त्रियं गच्छेदवकीर्ण्युच्यते बुधैः ।। पशुना गर्दभेनाधिक्रियते नैर्ऋतेनसः । शाखापशुविधा- नेन पशुः कार्यश्चतुष्पथे । न च श्राद्धार्थ आरब्धः पशुः प्रोक्तः प्रसङ्गतः ।। आह नैमि- त्तिकं वक्तुमिति षष्ठचन्तरं मुनिः । पाकयज्ञो हविर्यज्ञः पशोरेष द्विधा मतः ।। इहोच्यते पाकयज्ञः पाकयज्ञेन सूत्रणात् । अवकीर्णीन इत्यस्मिन् युक्तोऽधिकरणे यतः ।। स्वयं कर्तृक आद्यः स्यात् परोऽर्त्व्यादिकर्तृकः । लौकिके स्यादिदं कर्म काले चन्द्रमसः क्षये ।। पुरोडाशविधानं स्यान्नशाखात्पशुवच्चरुः । संस्कारानुष्ठितिस्तस्य सहाय्येनैव चोदिता ।। भूमौ पशुः पुरोडाशः श्रप्यते प्रोक्षणादिषु । आदिशेन्निर्कृतिं तत्र निर्ऋत्यै च निमन्त्रितः ।। अप्सु होमोऽवदानानां पुरोडाशेन तैः सह । वपा स्विष्टकृतेस्तद्वत्तेषामग्न्युपवादतः ।। आघारादि भवेद्वह्लावाज्यसम्बन्धि कर्म च । अवकीर्णाघ(कीर्णित्व)निःकृत्यै पाकयज्ञ- विधानतः ।। पशुना गर्दभेनाहं यक्ष्य इत्थं गुरुं वदेत् । स्थापयेल्लौकिकं वह्निं भूमौ संस्कार- पूर्वकम् ।। तदुत्तरेणोदपात्रं तथा भूशुद्धिपूर्वकम् । होमार्थमवदानानां स्वा(चा)ख्यानाद्य- पवर्गतः ।। परिष्कृतिर्द्वयोरेका साधनत्वात्तथोभयोः। स्नापयित्वोपकरणे पशुसंस्कारकर्मवत् ।। तच्छाखापशुवत्सर्वं वचनस्यातिदेशतः ।। तदन्ते परिसन्दधत्ते त्वचं (छर्वि) तामेव त (?) च्छुचिः । ऊर्ध्वपुच्छं ब्रुवन्त्यन्ये, चरेद्भिक्षां हि वत्सरम् ।। स्वकर्मजाह्यत्र तिष्ठेत्स्वपापं परि- कीर्तयेत् । 'निरुक्तं वा एन एव कनीयो भवति' श्रुतेः ।। संवत्सरान्ते पूतः सन्पुनस्तद्व्र- तमाचरेत् । नैमित्तिकान्तरं तस्यावकीर्णिन इहोच्यते ।। स्थापयित्वोद्धरेद्वह्निं लौकिकं न चतुष्पथे । वरणादि यथोक्तं स्यादाज्येनैवात्र हूयते । क्रमेण जुहुयादेता आघाराद्याश्चतु- र्दश ।। तेनाज्येनैव जुहुयादाहुती प्रतिमन्त्रतः। आद्या कामावकीर्णोऽस्मि कामभिर्दग्ध इत्यथ ।।
- पा - त्य - पा - क... wait! Look at the characters: प - क्षा - दि - नि - पा - त्य - पा - क - प्र - का - शा - दि - क - म् Yes, पक्षादिनिपात्यपाकप्रकाशादिकम्!
त्यादयो वैतानिकाः सर्वार्थाः । कुतः ? यद्धि द्रव्यमुत्पत्तिकाल केनचिदर्थेनासंयु- Wait, "उत्पत्तिकाल" or "उत्पत्तिक़ाले"? Look closely at "उत्पत्तिकाल": द् - र - व्य - मु - त्प - त्ति - का - ल Wait, is there an e-matra on ल? Look at 'ल' in 'द्रव्यमुत्पत्तिकाल': The top has no matra! It says "द्रव्यमुत्पत्तिकाल" or is there a faded e-matra? Wait, look at 'केनचिदर्थेनासंयु-': के has clear e-matra. On 'ल', there is no e-matra visible, but wait, look at the very top: Wait, above 'ल' is the u-matra of 'षु' from line 21? No, line 21 above it has 'श्रौतं च हविः,'. Wait, in line 22, it is printed "द्रव्यमुत्पत्तिकाल" (without e-matra) or maybe
देवयाज्ञिकभाष्यसमेतम् । २३ सामर्थ्येन न सर्वाग्निकार्यार्थता विज्ञायते, तस्माच्छ्रौतं स्मार्तं च यद् गृह्यसूत्रोक्तम्, स्मृत्युक्तं च पाकादिकं तत्सर्वं गार्हपत्यादिषु भवतीति ॥ १८ ॥ दर्शनाच्च ॥ १ । १ । १९ ॥ दृश्यते चायमर्थो यत्स्मार्तमपि होमपाकादिकं वैतानिकेषु क्रियत इति । दक्षिणाग्निं प्रकृत्य श्रूयते—“ मांसं तु तत्र न पचयेयुः ” इति । अत एव प्रतिषेधात्प्राप्तिरनुमीयते, प्रतिषेधस्य प्राप्तिपूर्वकत्वात् । नच श्रौतो मांसपाको दक्षिणाग्नौ विहितोऽस्ति, तस्यैव प्रतिषेधः स्यात्, यतः स १शामित्रेऽग्नौ विहितः । अस्तित्वविहिताप्रतिषिद्धः स्मार्तो मांसपाकः, तस्यायं प्रतिषेधो विज्ञायते । स्मृ- तावपि दर्शश्राद्धं प्रकृत्याग्नौकरणार्थमभिमाह मार्कण्डेयः— आहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः । अनाहिताग्निस्त्वौपासनेऽग्न्यभावे तथाप्सु (स्तु ?) वा ॥ इति । शङ्खलिखितौ-“ धूपगन्धमाल्यैरलङ्कृत्य ब्राह्मणान् सघृतमन्नमनुज्ञाप्य दभ्रं दक्षिणाग्निं परिस्तीर्य जुहुयादग्नये कव्यवाहनाय ” इत्यादि । वायुपुराणेऽपि- आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः । इति अतोऽस्माद्दर्शनात्स्मार्तमपि वैतानिकेषु कर्तव्यमिति पूर्वः पक्षः । सिद्धान्तमाह- ‘नौपासनश्रुतेः ॥ १ । १ । २० ॥ यदुक्तं वैतानिकेष्वेवाग्निषु श्रौतं स्मार्तं च कर्तव्यमिति, तन्न, कुतः ? औपा- सनश्रुतेः । यतः, अहिताग्नेरपि औपासनः श्रूयते पितृमेधे “ ३अद्वारेणौपासनं निरस्यति ” इति । यदि स्मार्तमेव वैतानिकेषु क्रियेत, तदाऽऽहिताग्नेः पितृमेधे औपासनदर्शनं न स्यात् । अस्ति च । तस्मात्तान्यौपासने कर्तव्यानीति । १ शामित्रः पशुश्रपणोऽग्निरुच्यते, तथाचापस्तम्बः—अभिपर्यग्निकृते देश उल्मुकं निदधाति स शामित्रः । २ कात्यायनश्रौतसूत्र एव वक्ष्यत्येकविंशाध्याये चतुर्थकण्डिका- यामेकोनत्रिंशत्तमं सूत्रम् । ३ अत्र पूर्वतन्त्रोक्तं विहाराग्नेर्वैदिककर्ममात्राधिकरणं (१२ । २।१) अनुसन्धेयं विशेषजिज्ञासुभिः ।
२४ कात्यायनश्रौतसूत्रम् । तथा च ( याज्ञवल्क्य )स्मृतिः— कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही । दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥ इति ॥ ‘तस्मिन् गृहाणि’ इत्यापस्तम्बस्मरणाच्च । अतश्च यत्किञ्चिद्दम्पत्योर्विहितं कर्म शान्तिकपौष्टिकव्रताङ्गहोमादिकं स्मार्तं तत्सर्वमावसथ्येऽग्नौ भवतीति । अत एवाह कात्यायनः— न स्वेऽग्नावन्वयोहोमः स्यान्मुक्त्वाैकां समिदाहुतिम् । स्वस्य गर्भक्रियार्थांश्च यावन्नासौ प्रजायते ॥ अग्निस्तु नामधेयादौ होमे सर्वत्र लौकिकः । न हि पित्रा समानीतः पुत्रस्य भवति क्वचित् ॥ अतश्च सीमन्तोन्नयनमपि स्मार्ताग्नावेव कार्यम् । अपिच, आधानेनोत्पादितानां गार्हपत्यादीनामग्नीनां प्रयोजनापेक्षायां स- त्यां गार्हपत्ये हवींषि श्रपयन्त्याहवनीये जुह्वति, दक्षिणाग्नावन्वाहार्यं पचन्तीति प्रत्यक्षवचननिर्दिष्टैरेव प्रयोजनैर्निराकाङ्क्षाणां न सामर्थ्यमात्रेणोक्तादन्यत्र विनियोगः कल्पयितुं शक्यते । ननु माभूत्सामर्थ्यमात्रेण विनियोगः, वाक्येनैव स्मार्तेष्वपि पार्वणस्थाली- पाकादिहोमेषु भवत्विति चेत्, न; न च स्मार्तहोमास्तेषु विधातुं शक्याः, ते हि सहैवाधानेनावसथ्येनोत्पाद्यन्ते, यथा होमादयः। अत्राह जैमिनिः "सति चौपा- सनस्य दर्शनात् ” ( १२-२-१-४) इति । सति च विहारे औपासनेऽग्नि- र्दृश्यते । “ यः कामयेत राष्ट्रमस्यै प्रजायाै स्यादिति तस्यौपासने प्रजुहुयात् ” इति राजसूये प्रवृत्ते कर्मण्येेतद्वचनम् । तस्मिंश्च काले विहारोऽस्ति । यदि च विहार एव स्मार्तान्यपि कर्माणि स्युस्तदा कार्याभावादौपासनदर्शनं न स्यात् । अस्ति च । तस्मात्स्मार्तान्यौपासन एव कार्याणि ॥ २० ॥ यद्येवं तर्हि मांसपाकप्रतिषेधस्य का गतिरित्यत आह— अधिश्रपणीये मांसप्रतिषेधः ॥ १ । १ । २१ ॥ य एष उक्तो मांसपाकप्रतिषेधो “ मांसं तत्र न पचयेयुः”इति सोऽधि- श्रपणीयेऽहनि ज्ञेयः। नवगृहे यदा वासः क्रियते तदा तस्मिन्नेवाहनि । तत्र CC.0- Jangamwadi Math Collection. Digitized by eGangotri
देवयाज्ञिकभाष्यसमेतम् । २६ दक्षिणाग्नेराहरणं कार्यं नाहवनीयवत्प्रतिहोममिति विकल्पं वक्ष्यति-“नवावसिते वा ” इति । श्रूयते च-“ नवावसिते वैनमाहरेयुः ” इति । तदा च तस्मि- न्नवगृहे दक्षिणाग्नावविशेषेण भोजनार्हस्यानियतद्रव्यस्य पाको विहितोऽस्ति “ तस्मिन्पचेयुस्तद्ब्राह्मणा अश्रीयुः” इति । तत्र कदाचिन्मांससम्पत्तौ तस्यापि पाकस्तत्र प्राप्नोति तस्यैष प्रतिषेधो ‘ मांसं तत्र न पचेयुः ’ इति । पक्षान्तरमपि दुग्धाधिश्रयणरूपमेतस्य विद्यते “ यद्धृतं न विन्देद्यत्पचेद- पि गोरेव दुग्धमधिश्रयीत वै ब्रूयात् ” इति । तेनाधिश्रयणं सम्बन्धि अहः अधिश्रयणीयम्, तात्सम्बन्धिश्रयण इति । अनेन च सम्बन्धि दक्षिणाग्न्याहरण- दिनं लभते । अतः श्रौतान्येव वैतानिकेषु गार्हपत्यादिषु कर्तव्यानि । स्मार्तानि त्वावसथ्येऽग्नावेवेति सिद्धम् । यत्तु स्मृतौ दक्षिणाग्नावग्नौकरणहोम उक्तः, स सर्वाधानपक्षे त्वावस- थ्याग्नावेवेति तत्रैव निर्णीतमांस्त ॥ २१ ॥ ॥ इति प्रथमा कण्डिका ॥ कर्मणां फलवत्त्वोक्तिपूर्वकं तेष्वधिकारो निरूपितः । अधुना तस्यैव साङ्गस्य फलवतः कर्मणो निरूपणमाह— ( यागस्वरूपनिरूपणप्रतिज्ञा ) यज्ञं व्याख्यास्यामः ॥ १ । २ । १ ॥ यज्ञो यागो यजनमिष्टिरिति पर्यायाः । यज्ञं यागं व्याख्यास्यामः, याग- स्वरूपं कथयिष्यामः ॥१॥ ( यागस्वरूपनिरूपणम् ) तदेवाह— द्रव्यं देवतात्यागः ॥ १ । २ । २ ॥ द्रव्यं देवतात्यागो यज्ञः । द्रव्यं पुरोडाशचरुसान्नाय्यपशुसोमादिकम् । देवता अग्निसोमेन्द्रविष्ण्वादिकाः । तद्धितचतुर्थी मन्त्रवर्णान्यतमा बोध्या । तत्रा- ग्न्यादिकां देवतामुद्दिश्य यो द्रव्यस्य पुरोडाशादेस्त्याग उत्सर्गः स यज्ञः स याग इत्यर्थः । तथा चोक्तम्- तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन चेष्यते । देवतासङ्गतिस्तत्र दुर्बलं तु परं परम् ॥ इति ।