कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 13, कुल 114 में से
संदर्भ में पढ़ेंमूकस्य मन्त्रोच्चारणरहितम्, पङ्गोश्च विष्णुक्रमणरहितमिति सर्वेषामर्थिनामशक्या- ङ्गरहितकर्मानुष्ठानात्सिद्धोऽधिकार इति पूर्वः पक्षः ॥ ३ ॥ सिद्धान्तमाह— मनुष्याणां वारम्भसामर्थ्यात् ॥ १ । १ । ४ ॥ वाशब्दः पक्षव्यावृत्तौ । न सर्वेषामधिकारः, किन्तु मनुष्याणामेव । कुतः ? आरम्भसामर्थ्यात् । मनुष्या एव हि यथाश्रुतं कर्मारब्धुं, कर्तुं च समर्था न देव- र्षितिर्यगादयः । तत्र देवानां देवतान्तराभावादनधिकारः । न ह्यात्मानमुद्दिश्य त्यागः सम्भवति । किञ्च, देवाश्च प्राप्तस्वर्गादिकामाः । न च तेषां किञ्चिदवास- व्यमस्ति, यदर्थं कर्माणि कुर्वते । ऋषीणां चार्षेयाभावादनधिकारः । न हि भृग्वादयो भृग्वादिसगोत्रा भवन्ति । तन्त्ररत्ने तु विशेषः । अनादिर्हि कालोऽस्माकं मीमांसकानाम् । तेन भृगोरपि पूर्वपूर्वभृग्वन्तरसम्भवात्ततः पूर्वमप्येवमेवेति सम्भवत्येव भृगोर्भार्गव- त्वमित्यस्त्येव ऋषीणामप्यधिकारः । तथा, येषां शब्द एव देवता तेषामिद्यु- क्तम्, यद्देवानां देवतान्तराभावादनधिकार इति । शक्यते हीन्द्रेणापीन्द्रशब्दो- च्चारणेन हविस्त्यक्तुम् । तस्माद्देवाना मप्यधिकार इति । नच तिरश्चाङ्गवादीना- मधिकारः । प्रधानमात्रेऽपि सामर्थ्यात् । आसन्नचेतनत्वाच्च १ । ते ह्यासन्नमेव चेतयन्ते न पारलौकिकं फलमिति । ननूक्तं शुनश्चतुर्दश्यामुपवासदर्शनात्, श्येनस्य त्वष्टम्यामुपवासदर्शनाच्च तेऽपि पारलौकिकं जानन्तीति । तत्कथमव- गम्यत एते धर्मार्थमुपवसन्तीति । ये हि वेदस्मृतिपुराणादिकं पठन्ति त एव जानन्ति यदनेन कर्मणा इदं फलममुत्राप्यत इति, नचैते वेदादिकं पठन्ति, नाप्यन्येभ्य आगमयन्ति, तेन शास्त्रार्थमविद्वांसः, फलमामुष्मिकमकामयन्तः कथं तत्साधनं कर्म कुर्युः ? तस्मान्न धर्मार्थमुपवसन्तीति । किमर्थं तर्हितेषा- मुपवासः ? उच्यते, रोगादरुचिरेतेषाम् । तर्हि नियतकाले कथं रोगः ? उच्यते, नियतकाला अपि रोगा भवन्ति । यथा तृतीयकचातुर्थिकादिज्वराः । अधनाश्चैते । तस्मान्न गवादीनां तिरश्चामधिकारः । यानि पुनर्लिङ्गानि “ देवा ह वै सत्रमासत ” इत्यादीनि अर्थवादास्ते विधिप्ररोचनार्थाः । इत्थं सत्राणि प्रशस्तानि यानि कृतकृत्या अपि देवा आसते । आसन्नचेतनास्तिर्यञ्चोऽपि । अचेतना वनस्पतयोऽपि । किं पुनर्मनुष्या यथाश्रुतम नुष्ठातुं समर्था इति ।
१ आसन्नेषु समीपवर्तिषु चेतना बुद्धिर्येषामिति विग्रहः ।