कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 16, कुल 114 में से
संदर्भ में पढ़ें१० कात्यायनश्रौतसूत्रम् । ( शूद्राणामनधिकारः ) ब्राह्मणराजन्यवैश्यानाञ्च्श्रुतेः ॥ १ । १ । ६ ॥ शूद्रस्य कुतो नाधिकार इत्यत्र हेतुः। ब्राह्मणराजन्यवैश्यानामेवाधानं श्रू- यते । यतो ब्राह्मणादीनां त्रयाणामेवाधानं श्रूयते, न शूद्रस्य । तथाहि—“ व- सन्ते ब्राह्मणोऽग्नीनादधीत, ग्रीष्मे राजन्यः, शरदि वैश्यः” इति । अतः शूद्रस्या- ग्न्याधानश्रवणाभावादनग्निः शूद्रः । अतस्तस्याग्निसाध्ये कर्मण्यधिकाराभावः । नन्वनाहितानेवाग्नीन् क्रीतलब्धानादाय करिष्यति । मैवम् । आदधीतेत्यात्मने- पदाद्धातोरेव फलेन भवितव्यम्, कर्मयोग्यता चाग्नीनां तत्फलम्, अतोऽन्येऽन्या- हिता अन्यस्य कर्म न साधयन्ति । तेनानाहितानामग्नीनामुपादानमयुक्तम् । अतः शूद्रस्याधाना श्रवणात्तदेकोपायसाध्यानामग्नीनाम