भारतकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 15, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 15

[Header] देवयाज्ञिकभाष्यसमेतम् । ९

रो न निर्धनस्य। तस्य चाधिकारो भवत्येव । न त्वारम्भसामर्थ्याभावादनधि- कारः । अतो निर्धनोऽपि क्रत्वर्थं धनमर्जनादिना सम्पाद्यावश्यं यजेतेति । एवमन्धादिरपि ओषधिशास्त्रादिनाऽन्धत्वादिकं स्फोटयितुं शक्नोति तस्याप्यधि- कारो भवत्येव । पूर्वमङ्गहीनत्वावस्थायामाहिताग्निश्चेदकस्माद्रोगादिनाऽङ्गवैकल्ये जाते कर्मस्वधिकारो न भवति । नित्येषु तु यथाशक्ति कुर्वन्नधिक्रियत एव । अङ्गवैकल्ये सति अग्न्याधेयं न भवत्येव । (त्रिकाण्ड) मण्डनः— “ दर्शेटिं पौर्णमासेष्टिं सोमेड्यामनिसङ्ग्रहम् । अग्निहोत्रं विवाहं च प्रयोगे प्रथमे स्थितम् । न कुर्याज्जनके १ज्येष्ठे सोदरेचाप्यकुर्वति । ज्येष्ठे श्रद्धा- विहीने सत्याधेयं तदनुज्ञया । पितुः सत्यप्यनुज्ञाते ना

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक) · पृष्ठ 15, कुल 114 में से · BharatKosha