कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 76, कुल 114 में से
संदर्भ में पढ़ें७० कात्यायनश्रौतसूत्रम् । हंसमुखप्रसेकाः प्रसिच्यते क्षार्य्यतेऽनेनेति प्रसेकः प्रणालिका हंसमुखसदृशः प्रसेकः प्रणालिका यासां ताः हंसमुखप्रसेकाः। सा च प्रणालिका एकैव भवति। एकयापि शास्त्रार्थस्य कृतत्वात् कार्य्यसिद्धेश्च। न तु द्वे तिस्रो वा, कुत्राप्यनुक्त- त्वात्। तथा मूलदण्डा मूले दण्डो यासां ता मूलदण्डाः,। अर्थादग्रे पुष्करं सिध्यति। एवंविधाः स्रुचो भवन्ति। शाखान्तरीयो विशेषः पूर्वसूत्र उक्तः॥३७॥ अरत्निमात्रः स्रुवोऽङ्गुष्ठपर्ववृत्तपुष्करः॥ १ । ३ । ३८ ॥ अरत्निः प्रमाणमस्यासावरत्निमात्रः स्रुवोऽरत्निप्रमाणो भवति । पुनः कीदृशः अङ्गुष्ठपर्ववृत्तपुष्करः, अङ्गुष्ठपर्वणो वृत्तमाङ्गुष्ठपर्ववृत्तम्, अङ्गुष्ठपर्ववृत्तं प्रमाणं वृत्तं पुष्करं मुखं यस्यासावाङ्गुष्ठपर्ववृत्तपुष्करः। पर्वशब्दः सन्धवाची सन्धिग्रन्थिः। तदुक्तम्— “अङ्गुष्ठाङ्गुलिमानं तु यत्र यत्रोपदिश्यते । तत्र तत्र बृहत्पर्व ग्रन्थिभिर्मिनुयाद्बुधः” इति । अतोऽङ्गुष्ठस्य बृहत्पर्वग्रन्थिप्रमाणं चतुरस्रं कृत्वा तदेव मण्डलं चतुरस्रं चिकीर्षन्नित्युपायेन वृत्तं विधाय तत्प्रमाणं स्रुवस्य पुष्करम्। नासिकावत्खातं च स्यात् । तदुक्तं—कात्यायनेन (कर्मप्रदीपे ८-१३) “स्रुवाग्रे घ्राणवत्खातम्” इति। तथा “पुष्कार्धं भवेत्खातः” इति च ॥ २८ ॥ स्फ्योऽस्याकृतिः ॥ १ । ३ । ३९ ॥ असिः खड्गः असेरिव आकृतिर्यस्य, असावस्याकृतिः। खड्गसदृशः स्फ्यो- वज्रो भवतीत्यर्थः ॥ ३९ ॥ आदर्शाकृति प्राशित्रहरणम् ॥ १ । ३ । ४० ॥ प्राशित्रमिति ब्रह्मणो भागावदानम्, तत् ह्रियते येन तत्प्राशित्रहरणम् । आदर्शो दर्पणः। आदर्शस्येवाकृतिराकारो यस्य तदादर्शाकृति, आदर्शसदृशं वर्तू- लम्। तत्रावदानविधानाच्च खातवत्प्राशित्रहरणं भवति ॥ ४० ॥ चमसाकृति वा ॥ १ । ३ । ४१ ॥ चमसस्येवाकृतिराकारो यस्य तच्चमसाकृति । वा विकल्पे । अथवा चम- ससदृशं चतुरस्रं प्राशित्रहरणं भवति ॥ ४१ ॥