कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 77, कुल 114 में से
संदर्भ में पढ़ेंचात्त्वालोत्करावन्तरेण सञ्चरः ॥ १ । ३ । ४२ ॥ सञ्चरन्त्यनेनेति सञ्चरः, गमनागमनमार्गः । चात्वालश्च उत्करश्च चात्त्वा- लोत्करौ, तौ अन्तरेण तयोरन्तरालेन सर्वेषां विहितकार्यार्थं सञ्चरः, गमना- गमनमार्गो भवति । अयं च सोत्तरवेदिकेषु वरुणप्रघासमहाहविःपशुसोमेषु ज्ञेयः । चात्वालस्यैष्वेव सत्त्वात् अतः सोत्तरवेदिकेषु सर्वैरनेनैव मार्गेण गमनागमने कार्ये ॥ ४२ ॥ प्रणीतोत्कराविष्टिषु ॥ १ । ३ । ४३ ॥ अन्तरेण सञ्चर इत्यनुवर्तते । इष्टिषु दर्शपूर्णमासादिषु प्रणीतोत्कराव- न्तरेण प्रणीतोत्करयोरन्तरालेन सर्वेषां विहितकार्यार्थं सञ्चरः, गमनागमन- मार्गो भवति । अन्तरेणेत्यं निपातोऽन्तरालशब्दार्थे । तद्योगे चात्त्वालोत्करौ प्रणीतो- त्कराविति च द्वितीया “अन्तरान्तरेण युक्ते” इति ( पाणि. २-३-४ ) सूत्रात् ॥ ४३ ॥ ॥ इति तृतीया कण्डिका ॥ ( प्रतिनिधिप्रकरणम् ) अथेदं चिन्त्यते व्रीहिभिर्यजेत यवैर्यजेतेत्यादिभिर्वाक्यैः श्रुतौ ये व्रीहि- यवादयो विधीयन्ते, यदि दैवान्मानुषाद्वा कारणात्ते यागार्थं न लभ्यन्ते, तदा किं द्रव्यान्तरेण प्रतिनिधिभूतेन तत्कर्मारम्भणीयमुत नेति । तत्र यागस्य प्रधान- त्वाद्वव्यस्य च गुणभूतत्वाद्वव्यान्तरेण कर्मारम्भे प्राप्त आह— चोदिताऽनारम्भस्तत्सिद्धित्वात्तस्य ॥ १ । ४ । १ ॥ चोदितस्य विहितस्य श्रुतस्य व्रीहियवादेर्मुख्यद्रव्यस्याभावे अलाभे अप्राप्तौ सत्यां काम्यस्य कर्मणोऽनारम्भोऽप्रयोग एव भवति । कुतः ? तत्सिद्ध- त्वात् । तेनैव सिद्धि तस्य भावस्तत्सिद्धित्वं तस्मात्, तस्य काम्यस्य कर्मण- स्तत्सिद्धित्वात् । यतः काम्यं कर्म तत्सिद्धि तेन श्रुतेनैव चोदितेनैव सिद्ध्यति नान्येन । यतस्तदेव तस्य साधनत्वेन श्रुतं न द्रव्यान्तरम् । अतो यदि द्रव्यान्तरेण तत्कर्मारभ्यते तदा कर्मणो यागरूपस्य तदेकसाधनकत्वाद्वव्यान्यत्वे सति यथा- श्रुतद्रव्यहान्या कर्मणो विगुणत्वमेव स्यात् । न च विगुणात्काम्यात्किञ्चित्फलं भवति विनष्टशक्तित्वाद्दग्धबीजवत् । न हि काम्यस्यावश्यकर्तव्यत्वं केनचित्प्र- माणेन सिद्धं यद्वलेन यथाशक्ति प्रयोगं दृढीकृत्य द्रव्यान्तरेणारभ्येत । तस्माच्चो-