कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 79, कुल 114 में से
संदर्भ में पढ़ेंदर्शपूर्णमासाभिधेयं फलवत्, तथापि देशादिभेदवद्ब्रीहियवभेदवच्च नीवारेष्वपि तत्सामान्यव्यक्तिरेका, अतः सिद्धं द्रव्यभेदेऽपि कर्मैकत्वम् । एवं द्रव्यभेदेऽपि कर्मैकत्वे सिद्ध इदं सन्दिह्यते-श्रुतद्रव्याभावेऽपि किं यत्किञ्चिद्विसदृशमपि प्रतिनिधित्वेन ग्राह्यम्, उत श्रुतसदृशमेवेति । तत्राष्टाक- पालचोदना येन केनचिन्निर्वर्त्स्यते, तत्किं सदृशोपादानेन ? न च व्रीहिसदृश- त्वाद् व्रीहिफलं नीवाराः साधयन्तीति वाच्यम्, यदि तथा स्यात्तदा व्रीहिभिर्वि- कल्पेरन्नेकार्थत्वाद्यववत् । न चैतदिष्टम् । तेन सगुणासम्भवे विगुणोऽप्याग्नेय- चोदनार्थः कर्तव्य इतिकृत्वा द्रव्यान्तरोपादानं तत्र च सदृशासदृशयोनस्ति विशेषः । तस्मान्न सदृशोपादानमित्येवं प्राप्ते ब्रूमः- फलार्थिना यथाश्रुतं व्रीह्या