कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 89, कुल 114 में से
संदर्भ में पढ़ेंश्रीहिशास्त्रस्य नात्यन्तबाधोऽपि, व्रीह्युपादाने तु शेषकार्याणामत्यन्तलोपः स्यात्, [अतः] प्रधानाङ्गभूतपुरोडाशजात्यभिव्यक्तिमात्रसमर्थेषु सत्स्वपि व्रीहिषु शेष- कार्यविध्यबाधाय नीवारा एवोपादेया इति पूर्वः पक्षः। सिद्धान्तस्तु, श्रुत्या तावद्यागाङ्गत्वमेव व्रीहीणामवगम्यते, वस्तुतोऽपि तथा, यद्यपि पुरोडाशप्रकृतित्वं व्रीहीणामवगम्यते, तथापि तदवयवा एव पुरोडाशतामापन्ना यागद्रव्यं भवन्ति, ते च नीवारेषूपादीयमानेषु विगुणा भवन्ति, ततश्च प्रधानमेव विगुणं स्यात्, तच्चान्याय्यम्, तस्मात्प्रधानाङ्गभूतपुरो- डाशजात्यभिव्यक्तिसमर्थेषु सत्सु शेषकार्याण्यनादृत्य व्रीहिभिरेव पुरोडाशः कार्यो न शेषकार्यानुरोधेन नीवारोपादानमिति सिद्धम् । तदुक्तं मण्डनेन “अवत्तमात्रप- र्याप्तव्रीहिद्रव्यस्य सम्भवे पुरोडाशमहत्वार्थं न नीवारपरिग्रहः” इति ॥ एवं सान्नाय्येऽपि प्रधानयागसाधनसमर्थे स्रुवद्वयत्रयपरिमाणमपि यावत् दुग्धं लभ्यते कथंचित् तावत् चरुसान्नाय्यालाभ” इति-चरू न भवतः, अव- दानमात्रसमर्थमुख्यद्रव्याभावे त्वर्थद्रव्यविरोधेऽर्थसामान्यम् ” (२५,५,६) इति न्यायेन प्रतिनिधिमुपादानमेव युक्तम् ॥१६॥ अथ यत्र गुणद्रव्ययोर्विरोधस्तत्र कथम् । तद्यथा “नैर्ऋतः परिवृत्यै कृष्णव्री- हीणां नखनिर्भिन्नानाम्” (१५,३,१४,) इति