कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 90, कुल 114 में से
संदर्भ में पढ़ें८४ कात्यायनश्रौतसूत्रम् । न समत्वात् ॥ १ । ४ । १८ ॥ द्रव्यमेव प्रधानयोगीति यदुक्तम् तन्न, कुतः ? समत्वात्, उभयोर्गुणद्रव्ययोः सहश्रुत्वात् । द्रव्यमपि प्रधानयोगि श्रुतत्वाच्च गुणोऽपीति ॥ १८ ॥ एवं प्राप्त उक्तमेव सिद्धान्तं दृढयति— गुणानुग्रहात् ॥ १ । ४ । १९ ॥ गुणेनानुगृहीतं विशेषितं द्रव्यमेव प्रधानयोगि, गुणस्तु तत्र विशेषणमात्रम्, विशेष्यं तु द्रव्यमेव, अतो विशेषणविशेष्ययोर्विशेष्ये सम्प्रत्यय इति न्यायाद्द्रव्य- मेव गुणानुगृहीतं प्रधानयोगीति नैतदुभयं समम् । अत एवाग्निहोत्रे “पुंवत्साया अग्निहोत्र्याः” (४,१४,१) पयसोऽभावे पुंवत्सत्वलक्षणं गुणं हित्वा स्त्रीवत्साया अप्यग्निहोत्र्याः पयसा होतव्यम् । एवं पालाशानां परिधीनामाद्रीणामभावे (२,८,२०) आर्द्रत्वरूपं गुणं त्यक्त्वा शुष्का अपि पालाशा ग्राह्याः । बाहुमात्रा णामसम्भवे (२,८,१,) अबाहुमात्रा अपि । एवं सर्वत्रोह्यम् ॥ यदा पुनः खदिरस्तनुत्वात्तक्षणादिसंस्काराणामयोग्यः नियोजनमात्रे योग्यः कदरश्च महान्संस्कारयोग्यस्तदा कस्योपादानमिति सन्देहः, तत्र संस्कार- क्षमकदरोपादाने खदिरविधेर्वैकल्पिकमात्रत्वेनात्यन्तपीडाभावात्, अक्षमखदिरो- पादाने तु संस्कारविधीनामत्यन्तपीडाप्रसङ्गात् प्रातनिधिरेवोपादेयः, मैवम्, नहि गुणानुरोधेन प्रधानमुपरोद्धव्यं भवति, तेन भवतु संस्काराणामत्यन्तपीडा न तु प्रधानं तदनुरोधेन कथञ्चिदपि पीडयितव्यम्, तस्मात्तक्षणाद्यसंस्कृतेव खदिरे पशुं नियुञ्जीत । तदुक्तं जैमिनिना “द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात्” (६,३,३५,) इति । यदा पुनर्मुख्यमलभ्यं मत्वा प्रतिनिधिमुपादातुं प्रस्थितेना- न्तरामुख्यं लब्धम्, तदा प्रतिनिधेः सङ्कल्पितत्वात् मिथ्यासङ्कल्पदोषपरिहाराय मुख्यमनादृत्य प्रतिनिधिरेवापादेय इति प्राप्तेऽभिधीयते-यथाशक्तिशास्त्रार्थ-सम्पा- दयामीत्येवं शास्त्रार्थविषय एव सङ्कल्पः कर्तव्यः न प्रतिनिधिस्वरूपं सङ्कल्पाय- तव्यम् । न च मुख्ये विद्यमाने प्रतिनिधिः शास्त्रार्थो भवति, समग्रानुष्ठानशक्त्याम- सत्यां हि विकल्पाङ्गानुष्ठानमपि शास्त्रीयं भवति न सत्यामिति, तस्मान्मुख्यप्राप्तौ मुख्यमेवोपादेयम्, तदुक्तं जैमिनिना “मुख्याधिगमे मुख्यमागमो हि तद्भा- वात्” (६,३,३२,) इति ॥