भारतकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 98, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 98

नानि भवन्ति, तत्र यो मुख्यानां प्रधानानां क्रमस्तेनैव क्रमेण तदङ्गानां क्रमो भवति, यथा पौर्णमासेष्ट्यां प्रथमाग्नेयः यागः, ततोऽग्नीषोमीययागः। अत आ- ग्नेयस्य प्रथमं ग्रहणं ततोऽग्नीषोमीयस्य एवं प्रोक्षणादावपि, अयं मुख्यक्रमः, अनेन क्रमेण यद्यङ्गान्यनुष्ठीयन्ते, तदाङ्गानां नियता प्रधानप्रत्यासत्तिरनुगृहीता भवति, एवं ह्यङ्गप्रधानयोर्यावदनुज्ञातमेव व्यवधानं भवति। इतरथा तु पश्चाद्भा- विनः प्रधानस्य प्रथमाङ्गं क्रियमाणं प्रधानेनात्यन्तं व्यवहितं स्यात् ॥ अथ प्रवृत्तिक्रम उच्यते । यत्र बहूनि हवींषि भवन्ति समानदेवतानि । यथा वाजपेये पशवः। तत्र चोपाकरणप्रोक्षणादयः सन्निपातिनः प्रतिपश्वावर्तनीयाः, तेषां चावृत्तित्वेनैकस्य पशोः कात्स्न्येन कृत्वापरस्यापि तथैव क्रियन्त इत्येवम्। किं तर्हि सर्वेषामुपाकरणम् । यतः कुतश्चित्पशोरारभ्य कृत्वा ततः सर्वेषां नियोजनमित्यु- क्तम्। तत्र प्रथमे पदार्थे उपाकरणे अनियम एव। यतः कुतश्चित्पशोरारभ्य कर्तव्यः, द्वितीयश्च पदार्थो नियोजनरूपः। किं प्रथमो यत आरब्धः तत्रैवारम्भणीयः, उत तत्राप्यनियमः एवेति । तत्र क्रमनियमकारणानां श्रुत्यर्थपाठानामभावादनियमे प्राप्ते, उच्यते, प्रवृत्त्यैव नियमः, प्रथमः पदार्थो येन क्रमेण कृतः स एव क्रम उत्तरेष्वपि नियोजनादिषु नियम्यते । कुतः? पदार्थैः सह प्रधानं कर्तव्यमिति वचनात् । सर्वे पदार्थाः प्रधानकालान्न विप्रक्रष्टव्याः। कथं पदार्थैः सह प्रधानस्य वचनं यावता दर्शपूर्णमासाभ्यां यजेत प्रजापत्यैश्चरन्तीत्यादिषु प्रधानमात्रं श्रूयते। उच्यते, समीहितं भावयेद्यागेनेत्यमिति हि यजेतेत्यस्यार्थः । तत्र यस्यामेव- वेलायां स्वर्गो भवने कर्तृत्वं प्रतिपद्यते तस्मिन्क्षणे करणेतिकर्तव्यतेऽपि व्या- प्रियेते । अयमर्थः, नात्र प्रधानं कर्तव्यं श्रूयते, किन्तु प्रधानेन स्वर्गः कार्य इति करणविभक्तिनिर्देशाद्यागेनेष्टं कार्यमस्मिन्काले कुर्यादिति, तेन स्वकार्यं सेति- कर्तव्यताकेन कर्तुं शक्यते नान्यथा, तस्मात्त्रितयस्य फलकरणेतिकर्तव्यत्वस्य युगपद्यजेतेत्यनेन कर्तव्यतोच्यते, ततोऽन्यथाकरणेतिकर्तव्यतात्वमेव न स्यात् । न हि पश्चाद्भाविकरणं भवति, तथा भविष्यति, भाव्ये भूते च करणे असावेव- दोषः। न हि विनष्टं करणं भवतीति। तथा करणेतिकर्तव्यतयोरपि मिथो विप्रकर्षे अयमेव दोषः न हि विनष्टमनागतं वानुग्राहकं भवति तेन शब्दवस्तुभ्यामेक- कालस्तेषां त्रयाणाम् । ततः प्रधाने सेतिकर्तव्यताके एकस्मिन्क्षणे सह कर्तव्ये प्राप्ते सति एकः कर्ता बहूनि प्रधानानि इतिकर्तव्यतां वा असमर्थः कर्तुं यौग- पद्येनेत्यवश्यम्भावी कियानपि विप्रकर्षः, ईदृशेनापि विप्रकर्षेण सहैव पदार्थाः