कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)
Katyayana Shrautasutram of Shukla Yajurveda with Commentary
महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा
पृष्ठ 98, कुल 114 में से
संदर्भ में पढ़ेंनानि भवन्ति, तत्र यो मुख्यानां प्रधानानां क्रमस्तेनैव क्रमेण तदङ्गानां क्रमो भवति, यथा पौर्णमासेष्ट्यां प्रथमाग्नेयः यागः, ततोऽग्नीषोमीययागः। अत आ- ग्नेयस्य प्रथमं ग्रहणं ततोऽग्नीषोमीयस्य एवं प्रोक्षणादावपि, अयं मुख्यक्रमः, अनेन क्रमेण यद्यङ्गान्यनुष्ठीयन्ते, तदाङ्गानां नियता प्रधानप्रत्यासत्तिरनुगृहीता भवति, एवं ह्यङ्गप्रधानयोर्यावदनुज्ञातमेव व्यवधानं भवति। इतरथा तु पश्चाद्भा- विनः प्रधानस्य प्रथमाङ्गं क्रियमाणं प्रधानेनात्यन्तं व्यवहितं स्यात् ॥ अथ प्रवृत्तिक्रम उच्यते । यत्र बहूनि हवींषि भवन्ति समानदेवतानि । यथा वाजपेये पशवः। तत्र चोपाकरणप्रोक्षणादयः सन्निपातिनः प्रतिपश्वावर्तनीयाः, तेषां चावृत्तित्वेनैकस्य पशोः कात्स्न्येन कृत्वापरस्यापि तथैव क्रियन्त इत्येवम्। किं तर्हि सर्वेषामुपाकरणम् । यतः कुतश्चित्पशोरारभ्य कृत्वा ततः सर्वेषां नियोजनमित्यु- क्तम्। तत्र प्रथमे पदार्थे उपाकरणे अनियम एव। यतः कुतश्चित्पशोरारभ्य कर्तव्यः, द्वितीयश्च पदार्थो नियोजनरूपः। किं प्रथमो यत आरब्धः तत्रैवारम्भणीयः, उत तत्राप्यनियमः एवेति । तत्र क्रमनियमकारणानां श्रुत्यर्थपाठानामभावादनियमे प्राप्ते, उच्यते, प्रवृत्त्यैव नियमः, प्रथमः पदार्थो येन क्रमेण कृतः स एव क्रम उत्तरेष्वपि नियोजनादिषु नियम्यते । कुतः? पदार्थैः सह प्रधानं कर्तव्यमिति वचनात् । सर्वे पदार्थाः प्रधानकालान्न विप्रक्रष्टव्याः। कथं पदार्थैः सह प्रधानस्य वचनं यावता दर्शपूर्णमासाभ्यां यजेत प्रजापत्यैश्चरन्तीत्यादिषु प्रधानमात्रं श्रूयते। उच्यते, समीहितं भावयेद्यागेनेत्यमिति हि यजेतेत्यस्यार्थः । तत्र यस्यामेव- वेलायां स्वर्गो भवने कर्तृत्वं प्रतिपद्यते तस्मिन्क्षणे करणेतिकर्तव्यतेऽपि व्या- प्रियेते । अयमर्थः, नात्र प्रधानं कर्तव्यं श्रूयते, किन्तु प्रधानेन स्वर्गः कार्य इति करणविभक्तिनिर्देशाद्यागेनेष्टं कार्यमस्मिन्काले कुर्यादिति, तेन स्वकार्यं सेति- कर्तव्यताकेन कर्तुं शक्यते नान्यथा, तस्मात्त्रितयस्य फलकरणेतिकर्तव्यत्वस्य युगपद्यजेतेत्यनेन कर्तव्यतोच्यते, ततोऽन्यथाकरणेतिकर्तव्यतात्वमेव न स्यात् । न हि पश्चाद्भाविकरणं भवति, तथा भविष्यति, भाव्ये भूते च करणे असावेव- दोषः। न हि विनष्टं करणं भवतीति। तथा करणेतिकर्तव्यतयोरपि मिथो विप्रकर्षे अयमेव दोषः न हि विनष्टमनागतं वानुग्राहकं भवति तेन शब्दवस्तुभ्यामेक- कालस्तेषां त्रयाणाम् । ततः प्रधाने सेतिकर्तव्यताके एकस्मिन्क्षणे सह कर्तव्ये प्राप्ते सति एकः कर्ता बहूनि प्रधानानि इतिकर्तव्यतां वा असमर्थः कर्तुं यौग- पद्येनेत्यवश्यम्भावी कियानपि विप्रकर्षः, ईदृशेनापि विप्रकर्षेण सहैव पदार्थाः