कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 198, कुल 361 में से
संदर्भ में पढ़ें१६६ अथर्ववेदीय-कौशिकसूत्रम् । दर्व्या कुम्भ्याम् ॥१९॥ दर्विकृते तत्रैव प्रत्यानयति ॥२०॥ दर्व्योत्तममपादाय तत्सुहृद्दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति ॥२१॥ अथोद्धरति ॥२२॥ उद्धृते यदपादाय धारयति तदुत्तरार्ध आधाय रसैरुपसिच्य प्रतिग्रहीत्रे दातोपवहति ॥२३॥ तस्मिन्नन्वारब्धं दातारं वाचयति ॥२४॥ तन्त्रं सूक्तं पच्छः स्नानेन यौ ते पक्षौ यदतिष्ठः ॥२५॥ यौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहं- स्योदन । ताभ्यां पथ्यास्म सुकृतस्य लोकं यत्र ऋषयः प्रथमजाः पुराणाः ॥ यदतिष्ठो दिवस्पृष्ठे व्योमन्नध्योदन । अन्वायन्सत्यधर्माणो ब्राह्मणा राधसा सह ॥२६॥ क्रम- ध्वमग्निना नाकं पृष्ठात् पृथिव्या अहमन्तरिक्षमारुहं स्वर्यन्तो नापेक्षन्त उरुः प्रथस्व महता महिम्नेदं मे ज्योतिः सस्याय चेति तिस्रः समग्नय इति सार्धमेतया ॥२७॥ अत ऊर्ध्वं वाचिते हुते संस्थितेऽ