कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 281, कुल 361 में से
संदर्भ में पढ़ें॥८॥ असौ वै नाम ते माताऽसौ वै नाम ते पिता । असौ वै नाम ते दूतः स्ववंशमधितिष्ठति ॥ उत्तमरात्री णाम मृत्यो ते माता तस्य ते अन्तकः पिता। समं दधानस्ते दूतः स्ववंशमधितिष्ठति ॥ बहवोऽस्य पाशा वितताः पृथि- व्यामसंख्येया अपर्यन्ता अनन्ताः । याभिर्वेशानभिनिद्- धाति प्राणिनां यान्कांश्चेमान्प्राणभृतां जिघांसन् । स इमं दूतं नुदतु वंशपृष्ठात्स मे गच्छतु द्विषतो निवेशं मृत्यवे स्वाहा ॥ बृहस्पतिराङ्गिरसो ब्रह्मणः पुत्रो विश्वे- देवाः प्रददुर्विश्वमेजत् । स इमं दूतं नुदतु वंशपृष्ठात्स मे गच्छतु द्विषतो निवेशं बृहस्पतय आङ्गिरसाय स्वाहा ॥ यस्य तेऽन्नं न क्षीयते भूय एवोपजायते । यस्मै भूतं च भव्यं च सर्वमेतत्प्रतिष्ठितम् । स इमं दूतं नुदतु वंश- पृष्ठात्स मे गच्छतु द्विषतो निवेशमिन्द्राय स्वाहा ॥ मुखं देवानामिह यो बभूव यो जानाति वयुनानां समीपे । यस्मै हुतं देवता भक्षयन्ति वायुनेत्रः सुप्रणीतः सुनीतिः । स इमं दूतं नुदतु वंशपृष्ठात्स मे गच्छतु द्विषतो निवेशमग्नये स्वाहा ॥ यः पृथिव्यां च्यावयन्नेति वृक्षान् प्रभञ्जनेन रथेन सह संविदानः । रसान् गन्धान् भावयन्नेति देवो मातरिश्वा भूतभव्यस्य कर्त्ता । स इमं दूतं नुदतु वंशपृष्ठात्स मे गच्छतु द्विषतो निवेशं वायवे स्वाहा। ब्रह्मचारी चरति ब्रह्मचर्यमृचं गाथां ब्रह्म परं जिगांसन् । तं विघ्ना अनुपरियन्ति सर्वे ये अन्तरिक्षे
“असौ वै नाम ते माता” इत्यादिसे आहुति करे ॥ एवं “बृहस्पतिराङ्गि- रसो०” इत्यादि से आहुति करे ॥ “यस्य तेऽन्नंन०” इत्यादि से आ- हुति करे ॥ “मुखं देवानां०” इत्यादिसे । “यः पृथिव्यां०” इत्यादि से ॥ ३२