कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 300, कुल 361 में से
संदर्भ में पढ़ें४ अथर्ववेदीय-कौशिकसूत्रस्य— यवतिलादीन्याभ्याधेयादीनि यजमानं धूमं भक्षयति । सू० २९ । —कर्मसमाप्तौ शुचिना कर्मप्रयोगः । नित्यनैमित्तिककाम्यानि कर्माणि स्नानं कृत्वा प्रयुञ्जीत । कण्डिका ॥ ८ ॥ सू० १ । —सर्वकर्मार्था परिभाषा । अथ निशाकर्मपरिभाषा उच्यन्ते । येषु निशाकर्मंसु तन्त्रं तेषु अयं धर्मः । केचित् स्नातोऽहतवसनः प्रयुङ्क्ते इति सर्वार्था परिभाषा मन्यन्ते । ——सू० २ । अथ स्वस्त्ययनपरिभाषा उच्यन्ते । स्वस्त्ययनेषु चेज्यानो दिश्यान् बलीन् हरति प्रतिदिशमुपतिष्ठते । येऽस्यां स्थेति सूक्तेन प्रतिदिशं प्रत्यृचं बलिहरणं करोति । प्राचीदिगिति । प्रतिदिशमुपतिष्ठते । यथा उत्तमेन सारूपवत्सस्य रुद्राय त्रिर्जुहोति । ( कौ० ५०।१४ ) तत्र हविरुच्छिष्टेन बलिहरणं कुर्यात् । समाप्ता स्वस्त्ययनपरिभाषा । सू० ५ । —पुनः सर्वार्थाः परिभाषा उच्यन्ते । सर्वत्राधिकरणं कर्तुर्दक्षिणा । हविरुच्छिष्टं आज्यधानी उदपात्रं चर्ममण्डपदर्भसमिधः शान्त्युदकभाजनं स्रुक्स्रुवादीनि देयानि । नित्येषु नाधिकरणमस्ति परद्रव्येषु नाधि- करणमस्ति यथा नापितस्य क्षुरम् । ( कौ० ५५ । ) सू० ६ । —प्रोक्षणाचमनपर्यु- क्षणादि त्रिः कर्त्तव्यम् । सू० ८ । सर्वत्र शान्तिकेषु शान्तं संभारं दर्भसमिधादि । अभिचारे रौद्रं आङ्गिरसं संभारं (कौ० ४७।२।) सू० ९ । --स्रुक्स्रुवसमिधः काष्ठादि मणिद्रव्यकाष्ठाः कर्तव्यानि । प्रतीकं च द्रव्यञ्च । यथा कथं मह इति मादानक- शृतं क्षीरौदनमश्नाति । चमसे सरूपवत्सायाः दुग्धे ( कौ० १२।१।२ । ) चमसोऽपि मादानक एव । कथं मह इति उत्तरमपि अनेन सूक्तेन कर्म कुर्यात् । सू० १० विषये यथान्तरम् । मन्त्रद्रव्यसंशये संनिधानं गृहीतव्यं यथा लोमानि हस्तिरोमाणि यथा विद्मा शरस्येति प्रमेहाणं बध्नाति ( कौ० २५।१० ) सू० १२ । उलूखलमुसल- काष्ठम् । अन्यार्थं इन्धनार्थं काष्ठतक्षणं करोति । सू० १५ । —अथ शान्तवृक्षा उच्यन्ते । स्रग्मालवके प्रसिद्धः । बंधः कान्यकुब्जे प्रसिद्धः । शिरीषो भोजपुरे वाटिकायां प्रसिद्धः । शम्यस्तिलकः प्रसिद्धः । वरणो वरुणकः इति आनन्दपुरे प्रसिद्धः । जङ्गिडो वारा- णस्यां प्रसिद्धः । कुडको मालवके । गङ्गो हिमवति । गलावल्लस्तत्रैव प्रसिद्धः । स्यन्दनः हिमवति नर्मदायां प्रसिद्धः । अरणिका नर्मदातटे प्रसिद्धः । अश्मयोक्त अश्मन्तको भृगुकच्छे प्रसिद्धः । तुन्युस्तैन्दुका । पूतदारुर्देवदारुर्वैद्यके प्रसिद्धः । समाप्ताः शान्त- वृक्षाः । सू० १६ । अथ शान्त्यौषधय उच्यन्ते । चित्तिः प्रसिद्धा प्रायश्चित्तिः पर्वणि पर्वणि तस्याः त्रीणि त्रीणि पात्राणि भवन्ति । शमकानन्दपुरे विश्वामित्रो- वाप्याः समीपेऽस्ति । सवंशाघर्मोलिका साम्यवाका काकजंघासदृशा तलाशा वेतसी । वात्सक आटरूषकः ( कौ० ३९।६ ) सीसपात्रं ( शीशम ) प्रसिद्धम् । शाल्मलिः प्रसिद्धः सिपुत्रांकरी । आकृतिकोटः क्षेत्रमृत्तिका वल्मीकमृत्तिका । एताः सर्वाः